मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् १

संहिता

प्र म॑न्महे शवसा॒नाय॑ शू॒षमा॑ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् ।
सु॒वृ॒क्तिभि॑ः स्तुव॒त ऋ॑ग्मि॒यायार्चा॑मा॒र्कं नरे॒ विश्रु॑ताय ॥

पदपाठः

प्र । म॒न्म॒हे॒ । श॒व॒सा॒नाय॑ । शू॒षम् । आ॒ङ्गू॒षम् । गिर्व॑णसे । अ॒ङ्गि॒र॒स्वत् ।
सु॒वृ॒क्तिऽभिः॑ । स्तु॒व॒ते । ऋ॒ग्मि॒याय॑ । अर्चा॑म । अ॒र्कम् । नरे॑ । विऽश्रु॑ताय ॥

सायणभाष्यम्

अथ पंचमाध्याय आरभ्यते । प्रथमे मंडल एकादशेऽनुवाके चत्वारि सूक्तानि गतानि । प्रमन्मह इत्येतत्त्रयोदशर्चं सूक्तम् । अत्रानुक्रम्यते प्रसप्तोनेति । अनिरुक्ता संख्या विंशतिः । अनु १२-४ । इत्युक्त्वत्वात्प्र सप्तोनेत्युक्ते त्रयोदशेत्युक्तं भवति । ऋषिश्चान्यस्मादिति परिभाषया नोधा ऋषिः । अनादेशपरिभाषया त्रिष्टुप् छंदः । इंद्रो देवता ॥ गतः सामान्यविनियोगः । विशेषविनियोगस्तु लिंगादवगंतव्यः ॥

शवसानाय । शव इति बलनाम । तदिवाचरते । यथा बलं शत्रून्हंति तथा शत्रूणां हंतेत्यर्थः । गिर्वणसे । गीर्भिः स्तुतिलक्षणैर्वचोभिः संभजनीयाय । गिर्वणा देवो भवति गीर्भिरेनं वनयंति (नि ६-१४) इति यास्कः । एवंभूतायेंद्राय । शूषमिति सुखनाम । शूषं सुखहेतुभूतम् । आंगूषः स्तोम आघोघः (नि ५-११) इति यास्कः । आंगूषं स्तोत्रमंगिरस्वत् अंगिरस इव प्रमन्महे । वयं स्तोतारः प्रकर्षेणावगच्छामः । अवगत्य च सुवृक्तिभिः सुष्ट्वावर्जकैः स्तुत्याभिमुखीकरणसमर्थैः स्तोत्रैः स्तुवते स्तोत्रं कुर्वते ऋषये य इंद्र ऋग्मियोऽर्चनीयो भवति । यद्वा । कर्मणि कर्तृप्रत्ययः । ऋषिणा स्तूयमानायेत्यर्थः । नरे सर्वेषां नेत्रे । यद्वा । नरे यजमाने । विश्रुताय यष्वव्यतया विशेषेण प्रख्याताय । एवंभूताय तस्मा आर्कं मंत्ररूपं स्तोत्रम् । अर्को मंत्रो भवति यदेनेनार्चंति (नि ५-४) इति यास्कः । अर्चाम । पूजयाम । उच्चारयामेत्यर्थः ॥ मन्महे । मनु अवबोधने । तनादित्वादुप्रत्ययः । लोपश्चास्यान्यतरस्यां म्वो (पा ६-४-१०७) इति मकारादौ प्रत्यय उकारलोपः । शवसानाय । शव इवाचरति शवस्यते । अस्माल्लटः शानच् । बहुलं छंदसीति शपो लुक् । शानचश्छंदस्युभयथेत्यार्धधातुकत्वादतोलोपयलोपौ । चित इत्यंतोदात्तत्वम् । ननु क्यङो ङित्त्वात्तास्यनुदात्तेदिति शानचोऽनुदात्तेन भवितव्यम् । एवं तर्हि ताच्छीलिकश्चानश् । तस्य सार्वधातुकत्वेऽपि लसार्वधातुकत्वाभावच्चितः स्वर एव शिष्यते । शूषम् । शूष प्रसवे । पचाद्यच् । आंगूषम् । आङ् पूर्वाद्घुषेः पचाद्यचि घो इत्यस्य गूआदेशः पृषोदरादित्वात् । आङो ङकारस्येत्संज्ञा भावश्छांदसः । चित्स्वरेणोत्तरपदस्यांतोदात्तत्वे कृदुत्तरपदप्रकृतिस्वरत्वम् । घञि वा थाथादिनोत्तरपदांतोदात्तत्वम् । गिर्वणसे । गृ शब्दे । संपदादिलक्षणो भावे क्विप् । ऋूत इद्धातोरितीत्वम् । गीर्भिर्वन्यते संभज्यत इति गिर्वणाः । औणादिकः कर्मण्यसुन् । संज्ञापूर्वकस्य विधेरनित्यत्वाद्धलि चेति दीर्घाभावः । गतिकारकयोरपि पूर्वपदप्रकृतिस्वरत्वं चेति वचनात्पूर्वपदप्रकृतिस्वरत्वम् । अंगिरस्वत् । तेन तुल्यमिति वतिः । नभोऽंगिरो मनुषां वत्युपसंख्यानम् । पा १-४-१८-३ । इति भसंज्ञायां रुत्वाद्यभावः । प्रत्ययस्वरः । सुवृक्तिभिः । वृजी वर्जने । भावे क्तिन् । तितुत्रेतीट् प्रतिषेधः । शोभनमावर्जनं येषाम् । नञ्लुभ्यामित्युत्तरपदांतोदात्तत्वम् । ननु क्तिनंतस्योत्तरपदस्याद्युदात्तत्वादाद्युदात्तं द्व्यच्छंदसीति वचनादात्तरपदाद्युदात्तत्वम् । प्राप्नोति । एवं तर्हि तत्पुरुषोऽस्तु । शोभनमावर्जितो भवत्येभिरिति सुवृक्तयः स्तोत्राणि । करणी क्तिन् । तादौ च नितीति गतेः प्रकृतिस्वरत्वे प्राप्ते मन् क्तिन्नित्यादिना कारकादुत्तरस्य क्तिनो विहितमुत्तरपदांतोदात्तत्वमकारकादपि व्यत्ययेन भवति । स्तुवते । शतुरनुम इति विभक्तेरुदात्तत्वम् । ऋग्मियाय । एकाचो नित्यं मयटमिच्छंति । का ४-३-१४४ । इति ऋक्शब्दाद्विकारार्थे मयट् । स्वादिष्वसर्वनामस्थाने (पा १-४-१७) इति पदसंज्ञायां कुत्वजश्त्वे । व्यत्ययेनेत्वम् । यद्वा । ऋच स्तुतावित्यस्माद्भावे मक् । बहुलवचनात्कुत्वं जश्त्वं च । ऋग्मं स्तुतिमर्हतीति ऋग्मियः । अहार्थे घच् । चित इत्यंतोदात्तत्वम् । अर्चाम । अर्च पूजायाम् । भौवादिकः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः । शिष्यते । अर्कम् । अर्च्यतेऽनेनेत्यर्कः । पुंसि संज्ञायां घः प्रायेणेति घप्रत्ययः । चचोः कु घिण्यतोरिति कुत्वम् । नरे नृशब्दाच्चतुर्थेकवचने गुणश्छांदसः । विश्रुताय । श्रु श्रवणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वं ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः