मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् २

संहिता

प्र वो॑ म॒हे महि॒ नमो॑ भरध्वमाङ्गू॒ष्यं॑ शवसा॒नाय॒ साम॑ ।
येना॑ न॒ः पूर्वे॑ पि॒तरः॑ पद॒ज्ञा अर्च॑न्तो॒ अङ्गि॑रसो॒ गा अवि॑न्दन् ॥

पदपाठः

प्र । वः॒ । म॒हे । महि॑ । नमः॑ । भ॒र॒ध्व॒म् । आ॒ङ्गू॒ष्य॑म् । श॒व॒सा॒नाय॑ । साम॑ ।
येन॑ । नः॒ । पूर्वे॑ । पि॒तरः॑ । प॒द॒ऽज्ञाः । अर्च॑न्तः । अङ्गि॑रसः । गाः । अवि॑न्दन् ॥

सायणभाष्यम्

हे ऋत्विजो वो यायं महे महते शवसानाय बलमिवाचरते । अतिबलायेत्यर्थः उत्तरवाक्ये यच्छब्दश्रुतेस्तच्छब्दाध्याहारः । एवंभूताय तस्मा इंद्राय महि महत्प्रौढं नमः स्तोत्रं प्र भरध्वम् । प्रकर्षेण संपादयत । किं तत्स्तोत्रमित्याह । आंगूष्यं साम आघोषयोग्यं रथंतरादि साम । तन्निष्पाद्यतामित्यर्थः । अभि त्वा शूरेत्यादिष्वृक्षु यद्गानं तस्य सामेत्याख्या । तथा चोक्तम् । गीतिषु सामाख्येति । यॆनेंद्रेण नोऽस्माकं पितरः पितृविशेषाः । पूर्वे पूर्व पुरुषा अंगिरसः पणिनाम्ना सुरेणापहृतानां गवां पदज्ञा मार्गज्ञाः संतोऽत एवार्चंतस्तं पूजयंतो गा आविंदन् । आलभंत ॥ वः प्रथमार्थे द्वितीया । पदज्ञाः पदानि जानंतीति । आतोऽनुपसर्गे क इति कः । आतो लोप इट चेत्या कारलोपः । अविंदन् । विद्लृलाभे । शे मुचादीनामिति नुमागमः ॥ २ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः