मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् ४

संहिता

स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रै॑ः स्व॒रेणाद्रिं॑ स्व॒र्यो॒३॒॑ नव॑ग्वैः ।
स॒र॒ण्युभि॑ः फलि॒गमि॑न्द्र शक्र व॒लं रवे॑ण दरयो॒ दश॑ग्वैः ॥

पदपाठः

सः । सु॒ऽस्तुभा॑ । सः । स्तु॒भा । स॒प्त । विप्रैः॑ । स्व॒रेण॑ । अद्रि॑म् । स्व॒र्यः॑ । नव॑ऽग्वैः ।
स॒र॒ण्युऽभिः॑ । फ॒लि॒ऽगम् । इ॒न्द्र॒ । श॒क्र॒ । व॒लम् । रवे॑ण । द॒र॒यः॒ । दश॑ऽग्वैः ॥

सायणभाष्यम्

अंगिरसो द्विविधाः । सत्रयागमनुतिष्ठंतो ये नवभिर्मासैः समाप्य गतास्ते नवग्वाः ॥ नवग्वा नवनीतगतय इति यास्को व्याचख्यौ । नि ११-१९ । ये तु दशभिर्मासैः समाप्य जग्मुस्ते दशग्वाः । तादृशैरुभयविधैर्विप्रैर्मेधाविभिः सरण्युभिः सरणं शोभनां गतिमिच्छद्भिः सप्त सप्तसंख्याकैः । सप्तह्यंत्र मेधातिथिप्रभृतयोऽंगिरसो दृश्यंते । एवंभूतैरंगिरोभिः सुष्टुभा शोभनस्तोभयुक्तेन स्वरेणोदात्तादिश्रव्यस्वरोपेतेन । यद्वा । मंद्रमध्यमादिस्वरेण स्तुभा स्तोत्रेण स्वर्यः सुष्ठु प्राप्यः । यद्वा । शब्दनीयः । स्तुत्य इत्यर्थः । हे शक्र शक्तिमन्निंद्र एवंभूतः स त्वमद्रिमादरणीयम् । वज्रेण च्छेत्तव्यमित्यर्थः । फलिगम् । प्रतिफलं प्रतिबिंबम् । तदस्मिन्नस्तीति फलि स्वच्छमुदकम् । तद्गच्छत्याधारत्वेनेति फलिगः । यद्वा । व्रीह्यादि फलम् । तदत्त्यस्मिन्सति भवतीति फलि वृष्टिजलम् । तद्गच्छतीति फलिगः । यद्वा । व्रीह्यादि फलम् । तदस्त्यस्मिन्सति भवतीति फलि वृष्टजलम् । तद्गच्छतीति फलिगः । एवंभूतं वलं मेघं रवेणात्मीयेन शब्देन दरयः । अभाययः त्वदीयशब्दश्रवणमात्रेण मेघो बिभेतीत्यर्थः । यद्वा । अद्रिः । पर्वतः । अद्यतेऽस्मिन्पटलादिकमिति । फलिगो मेघः । फलिग उपल इति तन्नामसु पाठात् । वलोऽसुरः । देवा वै वले गाः पर्यपश्यन् । ऐ । ब्रा । ६-२४ । इत्यादावसुरे । प्रयुक्तत्वात् । एते त्रयोऽपि त्वदीयशब्दश्रवणमात्रेणाबिभयुरित्यर्थः ॥ स इत्येकः पादपूरणः । सुष्टुभा । स्तोभतिः । स्तुतिकर्मा । संपदादिलक्षणो भावे क्विप् । शोभनः स्तुप् स्तोभो यस्य । नञ्सुभ्यामित्युत्तरपदांतोदात्त्वम् । उपसर्गात्सुनोतीति षत्वम् । स्तुभा । करणभूतस्यापि स्तोत्रस्य स्वव्यापारे कर्तृत्वात् स्तोभति स्तौतीति क्विप्चेति कर्तरि क्विप् । सावेकाच इति विभक्तेरुदात्तत्वम् । सप्त । सुपां सुलुगिति भिसो लुक् । स्वर्यः । स्वृ शब्दोपतापयोः । ऋहलोर्ण्यदिति ण्यत् । वृद्ध्यभावश्छांदसः । तित्स्वरित इति स्वरितत्वम् । नवग्वैः । नवशब्द उपपदे गमेर्भावे क्विपि गमः क्वावित्यनुनासिकलोप ऊ च गमादीनामिति वक्तव्यम् । पा ६-४-४०-२ । इत्यूकारांतादेशः । नवभिर्गूर्गमनं येषां ते नवग्वाः । अकारोपजनश्छांदसः । यद्वा । गमेर्भावे ड्वप्रत्ययः । पूर्ववद्बहुव्रीहिः । बहुप्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । सरण्युभिः । सरणमात्मन इच्छंतः सरण्यवः । क्यच्यंत्यलोपश्छांदसः । क्याच्छंदसीत्युः । फलिगम् । फल्युदकं गच्छतीति फलिगः । डोऽन्यत्रापि दृश्यते (पा ३-२-४८) इति गमेर्डः । वलम् । वृणोतीति वलः । पचाद्यच् । कपिलकादित्वाल्लत्वम् (म ८-२-१८) दरयः । दृ विदारणे । वृद्धौ कृतायां दृ भय इति घटादिषु पाठान्मित्त्वे मितां ह्रस्व इति ह्रस्वत्वं ॥ ४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः