मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् ५

संहिता

गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये॑ण॒ गोभि॒रन्ध॑ः ।
वि भूम्या॑ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ॥

पदपाठः

गृ॒णा॒नः । अङ्गि॑रःऽभिः । द॒स्म॒ । वि । वः॒ । उ॒षसा॑ । सूर्ये॑ण । गोभिः॑ । अन्धः॑ ।
वि । भूम्याः॑ । अ॒प्र॒थ॒यः॒ । इ॒न्द्र॒ । सानु॑ । दि॒वः । रजः॑ । उप॑रम् । अ॒स्त॒भा॒यः॒ ॥

सायणभाष्यम्

हे दस्म दर्शनीय शत्रूणामुपक्षयितर्वेंद्र त्वमंगिरोभिर्ऋषिभिर्गृणानः स्तूयमानः सन् उषसा सूर्येण च सह गोभिः किरणैरंधोऽंधकारं वि वः । व्यवृणोः । व्यनाशय इत्यर्थः । तथा हे इंद्र त्वं भूम्याः पृथिव्याः सानु समुच्छ्रितप्रदेशं व्यप्रथयः । विशेषेण विस्तीर्णमकरोः । विषमामिमां समीकृतवानित्यर्थः । तथा दिवोऽंतरिक्षस्य रजो रजसो लोकस्योपरमुप्तं मूलप्रदेशमस्तभायः । अस्तभ्नाः । यथांतरिक्षलोकस्य मूलं दृढं भवति तथाकार्षीरित्यर्थः ॥ गृणानः । कर्मणि लटः शानचि यकि प्राप्ते व्यत्ययेन श्ना । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । चित्स्वरेणांतोदात्तत्वम् । दस्म । दसु उपक्षये । इषियुधींधिदसीत्यादिना मक् । वः । वृञ् वरणे । लुङि सिपि मंत्रे घसेत्यादिना च्लेर्लुक् । गुणे हल्ङ्याब्भ्य इति सलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । अंधः । तमोऽप्यंध उच्यते नास्मिन्ध्यानं भवति । नि । ५-१ । इति यास्कः । रजः । लोका राजांस्युच्यंत इत्युक्तत्वाद्रजःशब्दो लोकवचनः । सुपां सुलुगिति षष्ठ्यालुक् । अस्तभायः । लङि स्तंभुस्तुंभ्वित्यादिना (पा ३-१-८२) श्नाप्रत्ययस्य शायजादेशः । अनिदितामिति नलोपः अडागमः ॥ ५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः