मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् ६

संहिता

तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ ।
उ॒प॒ह्व॒रे यदुप॑रा॒ अपि॑न्व॒न्मध्व॑र्णसो न॒द्य१॒॑श्चत॑स्रः ॥

पदपाठः

तत् । ऊं॒ इति॑ । प्रय॑क्षऽतमम् । अ॒स्य॒ । कर्म॑ । द॒स्मस्य॑ । चारु॑ऽतमम् । अ॒स्ति॒ । दंसः॑ ।
उ॒प॒ऽह्व॒रे । यत् । उप॑राः । अपि॑न्वत् । मधु॑ऽअर्णसः । न॒द्यः॑ । चत॑स्रः ॥

सायणभाष्यम्

प्रवर्ग्येऽभिष्टवे तदु प्रयक्षतममित्येषा । अथोत्तरमित्यत्र सूत्रितम् । तदु प्रयक्षतममस्य कर्मात्मन्वन्नभो दुह्यते घृतं पयः (आ ४-७) इति ॥

दस्मस्य दर्शनीयस्यास्येंद्रस्य तदु तदेव कर्म प्रयक्षतमम् । अतिशयेन पूज्यम् । दंस इति कर्मनाम । दंसस्तदेव कर्म चारुतमम् । अतिशयेन शोभनम् । किं तदित्यत आह । अयमिंद्र उपह्वर उपह्वर्तव्ये गंतव्ये पृथिव्याः संबंधिनि समीपदेश उपरा उप्ताः स्थापिता मध्वर्णसो मधुरोदकाश्चतस्रो नद्यः प्रधानभूता गंगादिनदीरपिन्वत् । असिंचदिति । यदेत्कर्म तदन्येन कर्तुमशक्यत्वात्पूज्यमित्यर्थः ॥ प्रयक्षतमम् । यक्ष पूजायाम् । यक्ष्यत इति यक्षः । अतिशयेन यक्षो यक्षतमः । पुनः प्रादिसमासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । दंसः । दसि दंसनदर्शनयोः । चुरादिरात्मनेपदी । दंस्यते कर्तव्यतया दृश्यत इति दंसः कर्म । औणादिकः कर्मण्यसुन् । उपह्वरे । ह्वृ कौटिल्ये । कौटिल्यलक्षणगतिवाचिनात्र गतिमात्रं लक्ष्यते । उपह्वरंति गच्छंत्यस्मिन्नद्य इत्युपह्वरो भूप्रदेशः । पुंसि संज्ञायां घः प्रायेणेत्यधिकरणे घप्रत्ययः । गुणः । कृदुत्तरपदप्रकृतिस्वरत्वम् । अपिन्वत् । पिवि सेचने । भौवादिकः । चतस्रः । शस् । त्रिचतुरोः स्त्रीयां तिसृचतसृ इति चतुर् शब्दस्य चतस्रादेश आद्युदात्तो निपातितः । पूर्वसवर्णदीर्घे प्राप्तेऽचि र ऋत इति रेफादेशः । पा ७-२-९९, १०० । चतुर् शब्दस्याद्युदात्तत्वात्स्थानिवद्भावेन चतस्रादेशस्याद्युदात्तत्वे सिद्धेऽपि पुनराद्युदात्तनिपातनसामार्थ्याद्यणादेशस्य वा पूर्वविधौ स्थानिवद्भावाच्चतुरः शसीत्यंतोदात्तत्वस्याभावः । न च न पदांतेति स्थानिवद्भावप्रतिषेधः । स्वरदीर्घयलोपेषु लोपाजादेश एव न स्थानिवत् अन्यत्तु स्थानिवदेव (म १-१-५८) इति नियमात् ॥ ६ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः