मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् ९

संहिता

सने॑मि स॒ख्यं स्व॑प॒स्यमा॑नः सू॒नुर्दा॑धार॒ शव॑सा सु॒दंसा॑ः ।
आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ॥

पदपाठः

सने॑मि । स॒ख्यम् । सु॒ऽअ॒प॒स्यमा॑नः । सू॒नुः । दा॒धा॒र॒ । शव॑सा । सु॒ऽदंसाः॑ ।
आ॒मासु॑ । चि॒त् । द॒धि॒षे॒ । प॒क्वम् । अ॒न्तरिति॑ । पयः॑ । कृ॒ष्णासु॑ । रुश॑त् । रोहि॑णीषु ॥

सायणभाष्यम्

स्वपस्यनूनः । स्वपः शोभनं कर्म । तदिवाचरन् शवसा शवसो बलस्य सूनुः पुत्रः । अतिबलवानित्यर्थः । सुदंसाः शोभनयागादिकर्मयुक्तः । एवंभूत इंद्र सख्यं यजमानानां सखित्वं सनेमि पुराणं दाधार । धारयति । पोषयतीत्यर्थः । सनेमीति पुराणनाम । प्रवयाः । सनेमीति पाठात् । किंचामासु चित् आर्द्रास्वपरिपक्वासु गोषु चांतर्मध्ये पक्वं परिपक्वं पयो दधिषे । धारयसि । तथा कृष्णासु कृष्णवर्णासु रोहिणीषु लोहितवर्णासु च गोषु तद्विपरीतं रुशद्दीप्यमानं श्वेतवर्णं पयो दधिषे ॥ सख्यम् । सख्युर्भावः सख्यम् । सख्युर्यइति यः । प्रत्ययस्वरः । दाधार । धृञ् धारणे । तुजादित्वादभ्यासस्य दीर्घत्वम् । पक्वम् । पचो वः (पा ८-२-५२) इति निष्ठातकारस्य वत्वम् । रोहिणेषु । रुह बीजजन्मनि प्रादुर्भावे । रुहे रश्च लो वा (उ ३-९४) इतीतन्प्रत्ययांतो रोहितशब्द आद्युदात्तो वर्णवाची । वर्णादनुदात्तात्तोपधात्तो नः (पा ४-१-३९) इति ङीप् । तत्संनियोगेन तकारस्य नकारादेशश्च । ङीपः पित्त्वादनुदात्तत्वे प्रातिपदिकरस्वर एव शिष्यते ॥ ९ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः