मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६२, ऋक् १०

संहिता

स॒नात्सनी॑ळा अ॒वनी॑रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृता॒ः सहो॑भिः ।
पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी॑र्दुव॒स्यन्ति॒ स्वसा॑रो॒ अह्र॑याणम् ॥

पदपाठः

स॒नात् । सऽनी॑ळाः । अ॒वनीः॑ । अ॒वा॒ताः । व्र॒ता । र॒क्ष॒न्ते॒ । अ॒मृताः॑ । सहः॑ऽभिः ।
पु॒रु । स॒हस्रा॑ । जन॑यः । न । पत्नीः॑ । दु॒व॒स्यन्ति॑ । स्वसा॑रः । अह्र॑याणम् ॥

सायणभाष्यम्

सनाच्चिरकालादारभ्य सनीळाः समाननिवासस्थाना अवाताः । वातं गमनं तद्रहिताः । एकपाण्यवस्थानात् । अवनय इत्यंगुलिनाम । एवंभूता अवनीरंगुलयः । पुरु पुरूणि बहूनि सहस्रसंख्यातानि व्रता व्रतानींद्रसंबंधीनि कर्माण्यमृताः पुनःपुनःकरणेऽप्यालस्यरहिताः सत्यः सहोभिरात्मीयैर्बलैः । रक्षंते । पालयंति । अपि च स्वसारः । स्वयमेव सरंत्योऽंगुलयः पत्नीः पालयित्र्योऽह्रयाणं लज्जारहितम् । प्रगल्भमित्यर्थः । यद्वा । अह्रीतयानम् । प्रशस्तगमनमिंद्रं जनयो न । जनय इति देवानां प्रत्न्य उच्यंते । देवानां वै पत्नीर्जनय इति श्रुतेः । ता इव दुवस्यंति । परिचरंति । अंजलिबंधनेनेंद्रं प्रीणयंतीत्यर्थः ॥ अवनीः । अवनयोऽंगुलयो भवंत्यवंति कर्माणि (नि ३-९) इति यास्कः । सुपां सुलुगिति जसः पूर्वसवर्णदीर्घत्वम् । अवाताः । वा गतिगंधनयोः । असिहसीत्यादिना भावे तन्प्रत्ययः । बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । व्रता । शेश्छंदसि बहुलमिति शेर्लोपः । दुवस्यंति । दुवस्यतिः परिचरणकर्मा । कंड्वादिः । अतो यक एव स्वरः शिष्यते । पादादित्वान्निघाताभावः । अह्रयाणम् । ह्री लज्जायाम् । बहुलं छंदसीति श्लोरभावः । व्यत्ययेन शानच् । मुगभावश्छांदसः । नञ्समासेऽव्यय पूर्वपद - प्रकृतिस्वरत्वम् । यद्वा । बहुलं छंदसीति शपो लुकि छंदस्युभयथेति शानच आर्धधातुकत्वेन ङित्त्वाभावे -गुणायादेशौ । पूर्ववत्समासस्वरौ । यास्कस्त्वेवं व्याख्यत् । अर्हयाणोऽह्रीतयानः (नि ५-१५) इति ॥ १० ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः