मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् १

संहिता

त्वं म॒हाँ इ॑न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा॑ जज्ञा॒नः पृ॑थि॒वी अमे॑ धाः ।
यद्ध॑ ते॒ विश्वा॑ गि॒रय॑श्चि॒दभ्वा॑ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ॥

पदपाठः

त्वम् । म॒हान् । इ॒न्द्र॒ । यः । ह॒ । शुष्मैः॑ । द्यावा॑ । ज॒ज्ञा॒नः । पृ॒थि॒वी इति॑ । अमे॑ । धाः॒ ।
यत् । ह॒ । ते॒ । विश्वा॑ । गि॒रयः॑ । चि॒त् । अभ्वा॑ । भि॒या । दृ॒ळ्हासः॑ । कि॒रणाः॑ । न । ऐज॑न् ॥

सायणभाष्यम्

त्वं महानिति नवर्चं षष्ठं सूक्तम् । नोधस आर्षं त्रैष्टुभमैंद्रं अनुक्रम्यते च । त्वं नवेति ॥ समूळ्हे दशरात्रे द्वितिये छंदोमे मरुत्वतीये शस्त्र एतत्सूक्तम् । विश्वजितोऽग्निं नर इति खंडे सूत्रितम् । तां सु ते कीर्तिं त्वं महा इंद्र यो ह ॥ अ ८-७ । इति ॥

हे इंद्र त्वं महान् गुणैः सर्वाधिको भवसि । यो ह यः खलु त्वममेऽसुरकृते भये सति जज्ञानस्तदानीमेव प्रादुर्भूतः सन् शुष्मैः शत्रूणां शोषकैरात्मीयैर्बलैर्द्यावापृथिवी द्यावापृथिव्यौ धाः । अधारयः । तादृशाद्भयादमूमुच इत्यर्थः । किंच । यद्ध ते यस्य खलु तव संबंधिन्या भिया भीत्या विश्वा विश्वानि व्याप्तानि यानि भूतजातानि गिरयश्चित् ये च शिलोच्चयाः । अभ्वा । महन्नामैतत् । अन्यान्यपि महांति यानि संति । तेऽपि सर्वे दृळ्हासो दृढा अप्यैजन् । अकंपिषत । तत्र दृष्टांतः । किरणा न । यथा सूर्यरश्मय इतस्ततो नभसि कंपंते तद्वत् ॥ जज्ञानः । जनी प्रादुर्भावे । लिटः कानच् । गमहनेत्यादिनोपधालोपः । स्थानिवद्भावाद्द्विर्भावादि । चित इत्यंतोदात्तत्वम् । द्यावापृथिवी इत्यस्य समस्तपदस्य मध्ये जज्ञान इत्यस्य पाठश्छांदसः । यत् । सुपां सुलुगिति षष्ठ्या लुक् । अभ्वा । आ समंताद्भवंति सद्भावं प्राप्नुवंतीत्यभ्वा महांतः । आङ् पूर्वाद्भवतेरौणादिको ड्वन्प्रत्ययः । उपसर्गस्य ह्रस्वत्वं च । यद्वा । नञ् पूर्वाद्भवतेः प्राप्त्यर्थान्नञि भुवो डिदिति क्वन्प्रत्ययः । महांतो हि प्राप्तुं न शक्यंते । शेश्छंदसि बहुलमिति शेर्लोपः । किरणाः । कीर्यंते विक्षिप्यंत इति किरणाः । कृ विक्षेपे । कृ पृवृजिमंदिनिधाञ्भ्यः क्युः (उ २-८१) इति क्युप्रत्ययः । योरनादेशे प्रत्ययाद्युदात्तत्वम् । ऋूत इद्धातोरितीत्वम् । ऐजन् । एजृ कंपने । लङ्याडागमः । स चोदात्तः । वृद्धिश्च ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः