मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् २

संहिता

आ यद्धरी॑ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं॑ जरि॒ता बा॒ह्वोर्धा॑त् ।
येना॑विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ॥

पदपाठः

आ । यत् । हरी॒ इति॑ । इ॒न्द्र॒ । विऽव्र॑ता । वेः । आ । ते॒ । वज्र॑म् । ज॒रि॒ता । बा॒ह्वोः । धा॒त् ।
येन॑ । अ॒वि॒ह॒र्य॒त॒क्र॒तो॒ इत्य॑विहर्यतऽक्रतो । अ॒मित्रा॑न् । पुरः॑ । इ॒ष्णासि॑ । पु॒रु॒ऽहू॒त॒ । पू॒र्वीः ॥

सायणभाष्यम्

हे इंद्र त्वं यद्यदा विव्रता विविधकर्माणौ हरी त्वदीयावश्वावा वेः रथ आगमयसि । रथे योजयसीत्यर्थः । तदानीं ते तव बाह्वोर्हस्तयोर्जरिता स्तोता वज्रमा धात् । स्तोत्रेण स्थापयति । स्तोत्रा स्तुते प्रयत्नमंतरेण वज्रं त्वद्धस्ते दृश्यत इत्यर्थः । हे अविहर्यतक्रतो प्रेप्सितकर्मवन्निंद्र अमित्रान् शत्रून्येन वज्रेणेष्णासि अभिगच्छसि । हे पुरुहूत पुरुभिर्बहुभिर्यजमानैराहूत त्वं पूर्वीर्बह्वीः पुरोऽसुरपुराणि भेत्तुमभिगच्छसीत्यर्थः ॥ विव्रता । व्रतमिति कर्मनाम । विविधं व्रतं ययोस्तौ । सुपां सुलुगिति पूर्वसवर्णदीर्घत्वम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वेः । वी गतिप्रजनकांत्यशनखादनेषु । अंतर्भावितण्यर्थाच्छांदसे लुङि सिप्यदादित्वाच्छपो लुक् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । धात् । दधातेश्छांदसे लुङि गातिस्थेति सिचो लुक् । पूर्ववदडभावः । अविहर्यतक्रतो । हर्यतिः प्रेप्साकर्मेति यास्कः (नि ७-१७) हर्य गतिकांत्योः । कांतिरभिलाषः । विहर्यतोऽनभिलषितः । अविहर्यतोऽभिलषित इत्यर्थः । तादृशः क्रतुः कर्म यस्य स तथोक्तः । अमित्रान् । न संति मित्राण्येष्विति बहुव्रीहौ नञो जरमरमित्रमृता इत्युत्तरपदाद्युदात्तत्वम् । इष्णासि । इष आभीक्ष्ण्ये । अत्र गत्यर्थः । क्र्यादिभ्यः श्ना । सिपः पित्त्वादनुदात्तत्वे तस्मैव स्वरः शिष्यते । यद्वृत्तयोगादनिघातः ॥ २ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः