मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् ३

संहिता

त्वं स॒त्य इ॑न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् ।
त्वं शुष्णं॑ वृ॒जने॑ पृ॒क्ष आ॒णौ यूने॒ कुत्सा॑य द्यु॒मते॒ सचा॑हन् ॥

पदपाठः

त्वम् । स॒त्यः । इ॒न्द्र॒ । धृ॒ष्णुः । ए॒तान् । त्वम् । ऋ॒भु॒क्षाः । नर्यः॑ । त्वम् । षाट् ।
त्वम् । शुष्ण॑म् । वृ॒जने॑ । पृ॒क्षे । आ॒णौ । यूने॑ । कुत्सा॑य । द्यु॒ऽमते॑ । सचा॑ । अ॒ह॒न् ॥

सायणभाष्यम्

हे इंद्र त्वं सत्यः सत्सु भवः । सर्वोत्कृष्ट इत्यर्थः । एतान् शत्रूनभिगतः सन् दृष्णुस्तेषां धर्षयिता तिरस्कर्ता । किंच त्वमृभुक्षा ऋभूणामधिपतिः । तेषु कृतनिवासो वा । यद्वा । महन्नामैतत् । महान्प्रवद्धोऽसि । नर्यो नृभ्यो हितः । तथा त्वं षाट् शत्रूणामभिभविता । हंतेत्यर्थः । किंच । वृजन इत्यादीनि त्रीणि संग्रामनामानि । अत्र पूर्वे विशेषणे । वृजने वर्जनयुक्ते । संग्रामे हि वीराः पुरुषा वर्ज्यंते हिंस्यंते । पृक्षे संपर्चनीये वीर्यैर्योद्धुं प्राप्तव्ये । एवंविध आणौ संग्रामे द्युमते दीप्तिमते यूने तरुणाय कुत्साय सचा त्वं सहायो भूत्वा शुष्णं शोषयितारमेतत्संज्ञमसुरमहन् । अवधीः ॥ ऋभुक्षाः । ऋभुरिति मेधाविनाम । उरु विस्तीर्णं भाति । यद्वा । ऋतेन यज्ञेन भाति भवतीति वा ऋभुः । उरुशब्दे ऋतशब्दे वोपपदे भातेर्भवतेर्वा मृगय्वादयश्च (उ १-३८) इति कुप्रत्ययः । पूर्वपदस्य ऋभावश्च निपात्यते । क्षयतिरैश्वर्यकर्मा । तेषामीष्ट इत्यृभुक्षाः । यद्वा । क्षि निवासगत्योः । तेषु निवसतीति पतेस्थ (उ ४-१२) इति विधीयमान इनिप्रत्ययो बहुलवचनादस्मादपि भवति । टलोपश्च । सौ पथिमथ्यृभुक्षामात् (पा ७-१-८५) इत्यात्वम् । प्रत्ययस्वरः । षाट् । सह अभिभवे । छंदसि सह इति केवलादपि ण्विः । षत्वं छांदसम् । द्युमते । द्यौर्दीप्तिरस्मिन्नस्तीति द्युमान् । स्वादिष्वसर्वनामस्थान इति पदसंज्ञायां दिव उदित्युत्वम् । ह्रस्वनुड्भ्यां मतुबिति मतुप उदात्तत्वं ॥ ३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः