मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् ५

संहिता

त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता॑ना॒मजु॑ष्टौ ।
व्य१॒॑स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ॥

पदपाठः

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । अरि॑षण्यन् । दृ॒ळ्हस्य॑ । चि॒त् । मर्ता॑नाम् । अजु॑ष्टौ ।
वि । अ॒स्मत् । आ । काष्ठाः॑ । अर्व॑ते । वः॒ । घ॒नाऽइ॑व । व॒ज्रि॒न् । श्न॒थि॒हि॒ । अ॒मित्रा॑न् ॥

सायणभाष्यम्

हे इंद्र त्वं ह त्वं खलु त्यत् तस्य दृळ्हस्य चित् दृढस्य कस्यचिदप्यरिषण्यन् रेषणमनिच्छन् एवंस्वभावो भवसि । देवतात्वेनानुग्रहीतृत्वान् । तथापि मर्तानां स्तोतृणामस्माकं शत्रुभिरजुष्टावप्रीतौ सत्यामस्मदर्वतेऽस्मदीयाश्वाय गंतुं काष्ठा दिश आ समंतात् वि वः । विवृताः कुरु । यथा सर्वासु दिक्ष्वस्मदीया अश्वाः प्रतिरोधमंतरेण गच्छंति तथा कुर्वित्यर्थः । किंच तत्रत्यानमित्रान् हे वज्रिन्वज्रवन्निंद्र घनेव घनेन कठिनेन पर्वतेनेव वज्रेण श्नथिहि । श्नथय । जहीत्यर्थः । यद्वा । मर्तानां मनुष्याणां मध्ये यस्मिन्कस्मिंश्चित्तवाप्रीतौ सत्यां तस्य शत्रोर्दृढस्याप्यरिषण्यन् रेषणं हिंसनमनिच्छन्वर्तसे । यस्मिंस्तु कुत्सादौ प्रीतिरस्ति तस्य शत्रुवधं चकृषे । अतस्तव प्रियाणामस्माकमर्वत इत्यादि पूर्ववत् ॥ त्यत् । सुपां सुलुगिति षष्ठ्या लुक् । अरिषण्यन् । रिष्टशब्दात् क्यचि दुरस्युर्द्रविणस्युर्वृषण्यतिरिषण्यति (पा ७-४-३६) इति रिषण्भावो निपात्यते । नञ्समासेऽव्ययपूर्वपदप्रकृतिस्वरत्वम् । अस्मत् । पूर्ववत् षष्ठ्यालुक् । अर्वते अर्वणस्त्रसावनञ इति नकारस्य तकारादेशः । वनिप्सुपौ पित्त्वादनुदात्तौ । परिशेषाद्धातुस्वरः । घनेव । मूर्तौ घनः (पा ३-३-७७) इति काठिन्ये गम्य माने हंतेरप्प्रत्ययांतो निपात्यते । श्नथिहि । श्नथ्य हिंसार्थः । ण्यंताल्लोट बहुलं छंदसीति शपो लुक् ॥ ४ ॥ ५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः