मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् ७

संहिता

त्वं ह॒ त्यदि॑न्द्र स॒प्त युध्य॒न्पुरो॑ वज्रिन्पुरु॒कुत्सा॑य दर्दः ।
ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा॑ज॒न्वरि॑वः पू॒रवे॑ कः ॥

पदपाठः

त्वम् । ह॒ । त्यत् । इ॒न्द्र॒ । स॒प्त । युध्य॑न् । पुरः॑ । व॒ज्रि॒न् । पु॒रु॒ऽकुत्सा॑य । द॒र्द॒रिति॑ दर्दः ।
ब॒र्हिः । न । यत् । सु॒ऽदासे॑ । वृथा॑ । वर्क् । अं॒होः । रा॒ज॒न् । वरि॑वः । पू॒रवे॑ । कः ॥

सायणभाष्यम्

हे वज्रिन् वज्रवन्निंद्र पुरुकुत्सायैतत्संज्ञाया ऋषये युध्यन् तदीयशत्रुभिः सह युद्धं कुर्वाणस्त्वमेव त्यत् ताः सप्त पुरः तदीयानि सप्तसंख्यानि नगराणि दर्दः । व्यदारयः । अभैत्सीरित्यर्थः । अपि च सुदास एतत्संज्ञाय राज्ञेऽंहोरेतत्संज्ञ स्यासुरस्य संबंधि यद्धनमस्ति तद्वृथानायासेन बर्हिर्न बर्हिरिव वर्क् । अवृणक् । अच्छिन इत्यर्थः । तदनंतरं पूरवे त्वां हविषा पूरयते तस्मै सुदासे हे राजन् स्वामिन्निंद्र वरिवो धनं कः । अकार्षीः ॥ त्यत् । सुपां सुलुगिति विभक्तेर्लुक् । दर्दः । दृ विदारणे । अस्माद्यङ् लुगंताल्लङि सिप्यदादिवच्चेति वचनाच्छपो लुक् । हल्ङ्याब्भ्य इति सलोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः सुदासे । शोभनं ददातीति सुदाः । असुन् । सुदाः कल्याणदानः (नि २-२४) इति यास्कः । वर्क् । वृजी वर्जने । लङि सिपि बहुलं छंदसीति विकरणस्य लुक् । लघूपधगुणे पूर्ववत्सलोपः । अडभावश्च । चोः कुरिति कुत्वम् । कः । डुकृञ् करणे । लुङिसिपि मंत्रे घसेति चेर्लुक् । पूर्ववत्सलोपाडभावौ ॥ ७ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः