मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६३, ऋक् ८

संहिता

त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी॑पय॒ः परि॑ज्मन् ।
यया॑ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ॥

पदपाठः

त्वम् । त्याम् । नः॒ । इ॒न्द्र॒ । दे॒व॒ । चि॒त्राम् । इष॑म् । आपः॑ । न । पी॒प॒यः॒ । परि॑ऽज्मन् ।
यया॑ । शू॒र॒ । प्रति॑ । अ॒स्मभ्य॑म् । यंसि॑ । त्मन॑म् । ऊर्ज॑म् । न । वि॒श्वध॑ । क्षर॑ध्यै ॥

सायणभाष्यम्

हे देव द्योतमानेंद्र त्वं नोऽस्माकं चित्रां चायनीयां त्यां तामिषमन्नं परिज्मन् परितो व्याप्तायां भूमौ पीपयः । प्रावर्धयः । यथा सर्वा भूमिरन्नेन परिपूर्णा भवति तथा कुर्वित्यर्थः । तत्र दृष्टांतः । आपो न । यथापो वृष्ट्युदकानि भूम्यां वर्षणेन प्रवर्धयसि । तद्वत् । यद्वा । भूमौ वर्तमानानस्मान्यथापः पाययसि तद्वच्चित्रामिषमपि पाययेति भावः । हे शूरेंद्र ययेषात्मनमात्मानं जीवनमस्मभ्यं प्रति यंसि । प्रयच्छसि । तत्र दृष्टांतः । विश्वध विश्वतः सर्वतः क्षरध्यै क्षरितुमूर्जं न उदकमिव । यथास्मभ्यं बहुलमुदकं प्रयच्छसि तद्वत्प्राणधारणरूपं जीवनमपि प्रयच्छसीति भावः ॥ आपः । शसि प्राप्ते व्यत्ययेन जस् । अप्तृन्नित्यादिना दीर्घः । पीपयः । स्फायी ओप्यायी वृद्धौ । ण्यंताच्छांदसे लुङि प्यायः पी (पा ६-१-२८) इति व्यत्ययेन पीभावः । णिश्रिद्रुस्रुभ्य इति च्लेश्चङादेशः । णिलोपादीनि । यद्वा । पीङ् पान इत्यस्माल्लुङिचङि पूर्ववत् । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । परिज्मन् । जमतिर्गतिकर्मा । अज गतिक्षेपणयोः । आभ्यां परिपूर्वाभ्यां श्वन्नुक्षन्नित्यादौ कनिन्प्रत्ययांतो निपातितः । सुपां सुलुगिति सप्तम्या लुक् । यंसि । यम उपरमे । बहुलं छंदसीति शपो लुक् । त्मनम् । आङोऽन्यत्रापि च्छंदसि दृश्यते । का ६-४-१४१-१ । इत्यात्मन आकारलोपः । संज्ञा पूर्वकस्य विधेरनित्यत्वादुपधादीर्घाभावः । विश्वध । विश्वशब्दात्तसिलः सकारलोपो धत्वं च पृषोदरादित्वात् । क्षरध्यै । क्षर संचलने । तुमर्थे सेसेनित्यध्यैन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ८ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः