मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् १

संहिता

वृष्णे॒ शर्धा॑य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्य॑ः ।
अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिर॒ः सम॑ञ्जे वि॒दथे॑ष्वा॒भुवः॑ ॥

पदपाठः

वृष्णे॑ । शर्धा॑य । सुऽम॑खाय । वे॒धसे॑ । नोधः॑ । सु॒ऽवृ॒क्तिम् । प्र । भ॒र॒ । म॒रुत्ऽभ्यः॑ ।
अ॒पः । न । धीरः॑ । मन॑सा । सु॒ऽहस्त्यः॑ । गिरः॑ । सम् । अ॒ञ्जे॒ । वि॒दथे॑षु । आ॒ऽभुवः॑ ॥

सायणभाष्यम्

वृष्णे शर्धायेति पंचदशर्चं सप्तमं सूक्तम् । नोधस आर्षं मारुतम् । अंत्या त्रिष्टुप् । शिष्वाचतुर्दश जगत्यः । तथा चानुक्रांतम् । वृष्णे पंचोना मारुतं त्रिष्टुबंतमिति ॥ चातुर्विंशिकेऽहन्नाग्नि मारुत इदं मारुतं निविद्धानीयम् । सूत्रितं च । पृक्षस्य वृष्णो वृष्णे शर्धाय । यज्ञेन वर्धतेत्याग्निमारुतम् (आ ७-४) इति ॥ आभिप्लविके पंचमेऽहन्यप्येतदाग्निमारुते मारुतनिविद्धानम् । सूत्रितं च । पृक्षस्य वृष्णो वृष्णे शर्धाय नू चित्सहोजा इत्याग्निमारुतम् । अ । ७-७ । इति ॥

अत्र पूर्वार्धेन स्तुतौ नोधाः प्रेर्यते । हे नोधो वृष्णे कामानां वर्षित्रे सुमखाय शोभनयज्ञाय वेधसे पुष्पफलादीनां कर्त्रे । वायौ सति हि पुष्पाणि फलानि चोत्पद्यंते । एवंविधाय मरुद्भ्यः । विभक्तिव्यत्ययः । मरुतां मितराविणां शर्धाय समूहाय सुवृक्तिं सुष्ट्वावर्जकं सुष्ठु प्रवृत्तं वा स्तोत्रं प्र भर । प्रेरय । स्तुहीति यावत् । स्तुतौ प्रेरितो नोधा आह । धीरो धीमान् सुहस्त्यः शोभनांगुलियक्तः । कृतांजलिरित्यर्थः । एवंभूतोऽहं मनसा गिरः स्तुतिलक्षणा वाचः समंचे । सम्यग्व्यक्ताः करोमि । या गिरो विदथेषु यज्ञेष्वाभुवः । अङ् मर्यादायाम् । यथाशास्त्रं प्रयुक्ता भवंतीत्याभुवः । देवताभिमुखीकरणाय समर्थाः । यज्ञयोग्यैः स्तोत्रैर्मनः पूर्वकं मरुद्गणं स्तौमीति भावः । तत्र दृष्टांतः । अपो न । यथा पर्जन्यो युगपदेव बहुषु प्रदेशेषु बहुशो जलानि वर्षति तद्वत् ॥ वृष्णे । वृषु सेचने । कनिन्युवृषितक्षीत्यादिना कनिन्प्रत्ययः । कित्त्वाद्गुणाभावो नित्त्वादाद्युदात्तत्वम् । चतुर्थ्येकवच नेऽल्लोपोऽन इत्यकारलोपः । शर्धाय ॥ शृधु प्रसहने । शर्ध्यते प्रसह्यतेऽनेन पर्वतादिकमिति शर्धो मरुत्संघः । करणे घञ् । ञित्त्वादाद्युदात्तत्वम् । सुमखाय । शोभनो मखो यस्य । नञ्सुभ्यामिति प्राप्ते व्यत्ययेन पूर्वपदप्रकृतिस्वरत्वम् । नोधः । पादादित्वात् षाष्ठिकमामंत्रिताद्युदात्तत्वम् । सुहस्त्यः । हस्ते भव हस्त्याः । भवे छंदसीति यत् । यतो नाव इत्याद्युदात्तत्वम् । ततः सुशब्देन बहुव्रीहावाद्युदात्तं द्व्यच्छंदसीत्युत्तरपदाद्युदात्तत्वं ॥ १ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः