मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् २

संहिता

ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो॑ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ ।
पा॒व॒कास॒ः शुच॑य॒ः सूर्या॑ इव॒ सत्वा॑नो॒ न द्र॒प्सिनो॑ घो॒रव॑र्पसः ॥

पदपाठः

ते । ज॒ज्ञि॒रे॒ । दि॒वः । ऋ॒ष्वासः॑ । उ॒क्षणः॑ । रु॒द्रस्य॑ । मर्याः॑ । असु॑राः । अ॒रे॒पसः॑ ।
पा॒व॒कासः॑ । शुच॑यः । सूर्याः॑ऽइव । सत्वा॑नः । न । द्र॒प्सिनः॑ । घो॒रऽव॑र्पसः ॥

सायणभाष्यम्

ते मरुतो दिवोऽंतरिक्षाज्जज्ञिरे । प्रादुर्बभूवुः । कीदृशाः । ऋष्वासो दर्शनीयाः उक्षणः सेक्तारः । युवान इत्यर्थः । रुद्रस्य मर्याः । मर्यशब्दो मनुष्यवाचीह मरुतां मर्त्यत्वासंभवात्पुत्रा इत्यस्मिन्नर्थे पर्यवस्यति । मरुतां रुद्रपुत्रत्वं च मंत्रांतरे स्पष्टम् । आ ते पितर्मरुतां सुम्नमेतु । ऋग्वे २-३३-१ । इति । असुराः शत्रूणां निरसितारः अरेपसः । रेप इति पापनाम । पापरहिताः पावकासः सर्वेषां शोधकाः सूर्या इव शुचयो दीप्ताः सत्वानो न यथा परमेश्वरस्य भूतगणा अतिशयेन बलपराक्रमाः । तत्सदृशा इत्यर्थः । सत्वान इति भूतगणा उच्यंते । अथो ये अस्य सत्वानः । तै सं ४-५-१-३ । इत्यादौ तथा दर्शनात् । द्रप्सिनो वृष्ट्यदकबिंदुभिर्युक्ताः । मरुतः स्रष्टां वृष्विं नयंतीति श्रुतेः । तै सं २-४-१०-२ । घोरवर्पसः । वर्प इति रूपनाम । घोररूपाः । शत्रूणां भयंकररूपा इत्यर्थः । यद्वा । सत्वानो न घोरवर्पसः । यथा भूतगणा भयंकररूपास्तद्वदेतेऽपीत्यर्थः ॥ ऋष्वासः । ऋषी गतौ । गत्यर्था बुद्ध्यर्था इत्यत्र ज्ञानार्थः । सर्वनिघृष्टेत्यादौ (उ १-१५३) वप्रत्ययांतो निपातितः । आज्जसेरसुक् । उक्षणः । वा ष पूर्वस्य निगम इत्युपधादीर्घाभावः । अरेपसः । बहुव्रीहौ । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । सत्वानः । षद्लृ विशरणगत्यवसादनेषु । प्र ईरसद्योस्तुट्च (उ ४-११६) इति विधीयमानः क्वनिप्प्रत्ययो बहुलवचनात्केवलादपि भवति । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते ॥ २ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः