मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् ७

संहिता

म॒हि॒षासो॑ मा॒यिन॑श्चि॒त्रभा॑नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ ।
मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ॥

पदपाठः

म॒हि॒षासः॑ । मा॒यिनः॑ । चि॒त्रऽभा॑नवः । गि॒रयः॑ । न । स्वऽत॑वसः । र॒घु॒ऽस्यदः॑ ।
मृ॒गाःऽइ॑व । ह॒स्तिनः॑ । खा॒द॒थ॒ । वना॑ । यत् । आरु॑णीषु । तवि॑षीः । अयु॑ग्ध्वम् ॥

सायणभाष्यम्

महिष इति महन्नाम । महिषासो महांतः । मायेति ज्ञाननाम । मायिनः प्राज्ञाश्चित्रभानवः शोभनदीप्तयो गिरयो न स्वतवसः पर्वता इव स्वकीयेन बलेन युक्ता रघुष्यदः शीघ्रगमना हे मरुत एवंभूतगुणविशिष्टा यूयं हस्तिनो हस्तवंतो मृगा इव गजा इव वना वनानि वृक्षजातानि खादथ । भक्षयथ । प्रभंक्थेति यावत् । यद्यस्मादारुणीष्वरुणवर्णासु वडवासु तविषीर्बलान्ययुग्ध्वं संयोजितवंतः । तस्माद्भवतामिव वाहनस्यापि प्रबलत्वात्संयुक्ता भवंतः सर्वं भंजंतीत्यर्थः ॥ रघुष्यदः । स्यंदू प्रस्रवणे । रघु शीघ्रं स्यंदंते गच्छंतीति रघुष्यदः । क्विप्चेति क्विप् । अनिदितामिति नलोपः । वालमूललघ्वलमिति लत्वविकल्पः । मं ८-२-१८ । कृदुत्तरपदप्रकृतिस्वरत्व । खादथ । खादृ भक्षणे । अयुग्ध्वम् । युजिर् योगे । लुङि च्लेः सिच् । एकाच इतीट् प्रतिषेधः । धि च (पा ८-२-२५) इति सकारलोपः । चोः कुरिति कुत्वम् । अडागम उदात्तः यद्वृत्तयोगादनिघातः ॥ ७ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः