मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् ८

संहिता

सिं॒हा इ॑व नानदति॒ प्रचे॑तसः पि॒शा इ॑व सु॒पिशो॑ वि॒श्ववे॑दसः ।
क्षपो॒ जिन्व॑न्त॒ः पृष॑तीभिरृ॒ष्टिभि॒ः समित्स॒बाध॒ः शव॒साहि॑मन्यवः ॥

पदपाठः

सिं॒हाःऽइ॑व । ना॒न॒द॒ति॒ । प्रऽचे॑तसः । पि॒शाःऽइ॑व । सु॒ऽपिशः॑ । वि॒श्वऽवे॑दसः ।
क्षपः॑ । जिन्व॑न्तः । पृष॑तीभिः । ऋ॒ष्टिऽभिः॑ । सम् । इत् । स॒ऽबाधः॑ । शव॑सा । अहि॑ऽमन्यवः ॥

सायणभाष्यम्

प्रचेतसः प्रकृष्टज्ञाना मरुतः सिंहा इव नानदति । भृशं शब्दं कुर्वंति । यथा सिंहा गिरिगह्वरेषु गंभीरं शब्धं कुर्वंति एवं मरुत्स्वप्यागतेषु गंभीरः शब्द उत्पद्यत इति भावः । तथा सुपिशः शोभनावयवाः शोभनालंकारा वा । तत्र दृष्टांतः । पिशा इव । पिश इति रुरुनाम । यथा रुरवः । स्वशरीरगतैः श्वेतविंदुभिरलंकृतास्तद्वत् । विश्ववेदसः सर्वज्ञाः क्षपः शत्रूणां क्षपयितारो जिन्वंतः स्तोतृन्प्रीणयंतः शवसा बलेनाहिमन्यव आहननशीलमन्युयुक्ताः । यद्विषयः कोपो जायते तस्य हनने समर्था इत्यर्थः । यद्वा । मननं ज्ञानं मन्युः । अहीनज्ञानाः । उत्कष्टबुद्धय इत्यर्थः । एवंभूता मरुतः पृषतीभिः । पृषत्य इति मरुतां वाहनस्याख्या । पृषत्यः श्वेतविंद्वंकिता मृग्य इत्यैतिहासिकाः । नानावर्णा मेघमाला इति नैरुक्ताः । ताभिर्ऋष्टिभिरायुधैश्च सहिताः संतः सबाधः शत्रुभिर्बाधितान्यजमानान् समित् समानमेव युगपदेव रक्षितुमागच्छंतीति शेषः ॥ नानदति । नद अव्यक्ते शब्दे । अस्माद्यङ् लुगंताल्लट् । पिशा इव । पिश अवयवे । इगुपधलक्षणः कः । सुपिशः । सुपूर्वात्पिश अवयव इत्यस्मात् क्विप्चेति क्विप् । पृषतीभिः । पृषु सेचने । वर्तमाने पृषद्बृहन्महज्जगच्छतृवच्च (उ २-८४) इति शतृवद्भावादुगिशश्चेति ङीप् । अत एव शतुरनुम इति नद्या उदात्तत्वे प्राप्ते बृहन्महतोरुपसंख्यानमिति नियमात्तस्याभावः ॥ ८ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः