मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् १०

संहिता

वि॒श्ववे॑दसो र॒यिभि॒ः समो॑कस॒ः सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ ।
अस्ता॑र॒ इषुं॑ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ॥

पदपाठः

वि॒श्वऽवे॑दसः । र॒यिऽभिः॑ । सम्ऽओ॑कसः । सम्ऽमि॑श्लासः । तवि॑षीभिः । वि॒ऽर॒प्शिनः॑ ।
अस्ता॑रः । इषु॑म् । द॒धि॒रे॒ । गभ॑स्त्योः । अ॒न॒न्तऽशु॑ष्माः । वृष॑ऽखादयः । नरः॑ ॥

सायणभाष्यम्

विश्ववेदसः सर्वज्ञा रयिभिर्धनैः समोकसः समाननिवासाः समवेता वा धनाधिपतय इत्यर्थः । तविषीभिर्बलैः संमिश्लासः संमिश्राः । संयुक्ता इत्यर्थः । विरप्शिनः । महन्नामैतत् । महांतः । अस्तारः शत्रूणां निरसितारं अनंतशुष्मा अनवच्छिन्नबलाः वृषखादयः । वृषेंद्रः खाधिरायुधस्थानीयो येषां ते तथोक्ताः । यद्वा । वृषा सोमः खादि खाद्यः पेयो येषां ते । नरो नेतारः । एवं भूता मरुतः । गभस्तिरिति बाहुनाम । गभस्त्योर्बाह्वोरिषुं दधिरे । शत्रूणां निरसनाय धनुर्बाणाधिकमायुधं धारयंति ॥ समोकसः । उच समवाये । आसुनि बहुलवचनात्कुत्वमित्योक उचः के (पा ७-३-६४) इत्यत्रोक्तम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । संमिश्लासः । कपिलकादित्वाल्लत्वम् । विरप्शिनः । रप लप व्यक्तायां वाचि । विपूर्वादस्माद्बहुलवचनात् शक्प्रत्ययः । विविधं शब्धं रपंतीति विरप्शाः स्तोतारः । त एषां संतीति विरप्शिनः । यद्वा । विविधं रपणं विरप्शम् । तदेषामस्तीति । मरुतो हि विविधं शब्दं कुर्वते । इनिप्रत्ययस्वरः । अस्तारः । ताच्छीलिकस्तृन् । इडभावश्छांदसः । नित्त्वादाद्युदात्तत्वम् । अनंतशुष्माः । नास्त्यंतोऽस्येत्यनंतः । नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । अनंतः शुष्मो बलं येषाम् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । वृषखादयः । खादृ भक्षणे औणादिक इन्प्रत्ययः । वृषञ्शब्दः कनिन्प्रत्ययांत आद्युदात्तः । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ७ ॥ १० ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः