मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् १२

संहिता

घृषुं॑ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा॑ गृणीमसि ।
र॒ज॒स्तुरं॑ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ॥

पदपाठः

घृषु॑म् । पा॒व॒कम् । व॒निन॑म् । विऽच॑र्षणिम् । रु॒द्रस्य॑ । सू॒नुम् । ह॒वसा॑ । गृ॒णी॒म॒सि॒ ।
र॒जः॒ऽतुर॑म् । त॒वस॑म् । मारु॑तम् । ग॒णम् । ऋ॒जी॒षिण॑म् । वृष॑णम् । स॒श्च॒त॒ । श्रि॒ये ॥

सायणभाष्यम्

घृषुं शत्रूणां बलस्य घर्षकं विनाशयितारं पावकं सर्वेषां शोधकं वनिनम् । वनमित्युदकनाम । उदकवंतम् । वृष्टिप्रदमित्यर्थः । विचर्षणिं विशेषेण सर्वस्य द्रष्टारं रुद्रस्य महादेवस्य सूनं पुत्रभूतम् । एवंविधं मरुतां समूहं हवसाह्वानसाधनेन स्तोत्रेण गृणीमसि । शब्दयामः । स्तुम इत्यर्थः । हे ऋत्विग्यजमानाः यूयमपि श्रिय ऐश्वर्याय धनार्थं मारुतं गणं मरुतां संघं सश्चत । प्राप्नुत । कीदृशम् । रजस्तुरं पार्थिवस्य पांसोस्त्वरयितारम् । प्रेरकमित्यर्थः । तवसं प्रवृद्धं ऋजीषिणम् । तृतीयसवने हि मरुतः । स्तूयंते तत्र च ऋजीषमभिषुण्वंतीति ऋजीषसंबंधः श्रुतः । अतस्तद्वंतं वृषणं कामानां वर्षितारं ॥ हवसा । ह्वेञोऽसिप्रत्यये बहुलं छंदसीति संप्रसारणम् । गृणीमसि । गृ शब्दे । इदंतो मसिः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । रजस्तुरम् । रजांसि तुतोर्तीति रजस्तूः । तुर त्वरणे । क्विप्चेति क्विप् । वृषणं वाषपूर्वस्य निगम इति दीर्घाभावः । सश्चत । ग्लुन्च षस्ज गतावित्यत्र सश्चिमप्येक इति धातुवृत्तावुक्तम् । गतिकर्मसु च सश्चतीति परितम् । श्रिये । सावेकाच इति विभक्तेरुदात्तत्वं ॥ १२ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः