मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् १३

संहिता

प्र नू स मर्त॒ः शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त ।
अर्व॑द्भि॒र्वाजं॑ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे॑ति॒ पुष्य॑ति ॥

पदपाठः

प्र । नु । सः । मर्तः॑ । शव॑सा । जना॑न् । अति॑ । त॒स्थौ । वः॒ । ऊ॒ती । म॒रु॒तः॒ । यम् । आव॑त ।
अर्व॑त्ऽभिः । वाज॑म् । भ॒र॒ते॒ । धना॑ । नृऽभिः॑ । आ॒ऽपृच्छ्य॑म् । क्रतु॑म् । आ । क्षे॒ति॒ । पुष्य॑ति ॥

सायणभाष्यम्

स मर्तो मनुष्यः शवसा बलेन जनान् जातानन्यान्पुरुषानति अतीत्य नु क्षिप्रं तस्थौ । प्रतिष्ठितो भवति । हे मरुतो वो युष्माकमूती ऊत्या रक्षणेन यं पुरुषमावत अरक्षत । अपि च स पुरुषोऽर्वद्भिरश्वैः साधनभूतैर्वाजमन्नं नृभिः स्वकीयैर्मनुष्यैर्धना धनानि च भरते । संपादयति । तथापृच्छ्यमाप्रष्टव्यं शोभनं क्रतुमग्निष्टोमादिकर्मा क्षेति । आप्नोति । पुष्यति । प्रजया पशुभिः पुष्टो भवति च ॥ ऊती तृतीयायाः पूर्वसवर्णदीर्घत्वम् । नृभिः । नृ चान्यतरस्यामिति विभक्त्युदात्तत्वप्रतिषेधः । आपृच्छ्यम् । छंदसि निष्टर्क्येत्यादावाङ् पूर्वात्पृच्छतेः क्यच् प्रत्ययांतो निपात्यते । ग्रहिज्यादिना संप्रसासणम् । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । कृदुत्तरपदप्रकृतिस्वरत्वम् । क्षेति । क्षिनिवासगत्योः । बहुलं छंदसीति विकरणस्य लुक् । पुष्यति । पुष पुष्वौ । दिवादित्वात् श्यन् । नित्त्वादाद्युदात्तत्वम् । तिङः परत्वान्निघाताभावः ॥ १३ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः