मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् १४

संहिता

च॒र्कृत्यं॑ मरुतः पृ॒त्सु दु॒ष्टरं॑ द्यु॒मन्तं॒ शुष्मं॑ म॒घव॑त्सु धत्तन ।
ध॒न॒स्पृत॑मु॒क्थ्यं॑ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमा॑ः ॥

पदपाठः

च॒र्कृत्य॑म् । म॒रु॒तः॒ । पृ॒त्ऽसु । दु॒स्तर॑म् । द्यु॒ऽमन्त॑म् । शुष्म॑म् । म॒घव॑त्ऽसु । ध॒त्त॒न॒ ।
ध॒न॒ऽस्पृत॑म् । उ॒क्थ्य॑म् । वि॒श्वऽच॑र्षणिम् । तो॒कम् । पु॒ष्ये॒म॒ । तन॑यम् । श॒तम् । हिमाः॑ ॥

सायणभाष्यम्

हे मरुतो मघवत्सु हविर्लक्षणधनयुक्तेषु यजमानेषु पुत्रं धत्तन स्थापयत । दत्तेति यावत् । कीदृशं पुत्रम् । चर्कृत्यं कार्येषु पुनःपुनः पुरस्कर्तव्यम् । सर्वकर्मकुशलमित्यर्थः । पृत्सु संग्रामेषु दुष्टरं दुःखेन तरितव्यम् । अजेयमित्यर्थः । द्युमंतं दीप्तिमंतं शुष्मं शत्रूणां शोषकं बलवंतं धनस्पृतं धनानां स्प्रष्टारं धनैः प्रीतं वा उक्थ्यम् । उक्थं स्तोत्रम् । तदर्हम् । प्रसस्यमित्यर्थः । विश्वचर्षणिं विशेषेण द्रष्टारं सर्वज्ञम् । एवंविधं तोकं पुत्रं तनयं पौत्रं च शतं हिमा हेमंतर्तूपलक्षितान् शतं संवत्सरान् जीवंतः संतः पुष्येम । पोषयेम । अत्र हिमशब्देन :तद्युक्ता हेमंतर्तवोभिधीयंते । तथाच ब्राह्मणमेवमाम्नायते । शतं हिमा इत्याह शतं त्वा हेमंतानि धिषीयेति वावैतदाहेति ॥ चर्कृत्यम् । प्रकृतिग्रहणे यङ्लुगंतस्यापि ग्रहणम् । परि ९३-७ । इति न्यायेन करोतेर्यङ्लुगंताद्विभाषा कृवृषोः (पा ३-१-१२०) इति क्यप् । तुगागमः । प्रत्ययस्य पित्त्वादनुदात्तत्वे धातुस्वरः शिष्यते । पृत्सु । पदादिषु मांस्पृत्सून्ननामुपसंख्यानम् । पा ६-१-६३-१ । इति । पृतनाशब्दस्य पृदादेशः । दुष्टरम् । तृ प्लवनतरणयोः । ईषद्दुःसुष्विति खल् । सुषामादेराकृतिगणत्वात् षत्वम् । लित्स्वरेण प्रत्ययात्पूर्वस्योदात्तत्वम् । धत्तन । तप्तनप्तनथनाश्चेति तस्य तनादेशः ॥ १४ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः