मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६४, ऋक् १५

संहिता

नू ष्ठि॒रं म॑रुतो वी॒रव॑न्तमृती॒षाहं॑ र॒यिम॒स्मासु॑ धत्त ।
स॒ह॒स्रिणं॑ श॒तिनं॑ शूशु॒वांसं॑ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ॥

पदपाठः

नु । स्थि॒रम् । म॒रु॒तः॒ । वी॒रऽव॑न्तम् । ऋ॒ति॒ऽसह॑म् । र॒यिम् । अ॒स्मासु॑ । ध॒त्त॒ ।
स॒ह॒स्रिण॑म् । श॒तिन॑म् । शू॒शु॒ऽवांस॑म् । प्रा॒तः । म॒क्षु । धि॒याऽव॑सुः । ज॒ग॒म्या॒त् ॥

सायणभाष्यम्

ऐकादशिनस्य मारुतस्य पशोर्वपायागस्य नू ष्ठिरमित्येषा याज्या । सूत्रितं च । शुची वो हव्या मरुतः शुचीनां नू ष्ठिरं मरुतो वीरवंतम् (आ ३-७) इति ॥

हे मरुतः स्थिरं स्थास्नुं वीरवंतं वीरैः पुत्रैस्तद्वंतम् । यद्वा । वीर्योपेतम् । ऋतीषाहं गंतृणां शत्रूणामभिभवितारं एवंविधं रयिं पुत्रलक्षणं धनमस्मासु धत्त । स्थापयत । सहस्रिणं शतिनमेतत्संख्याकधनवंतं अत एव शूशुवांसं प्रवृद्धम् । अपि चास्माकं रक्षणाय धिया बुद्ध्या कर्मणा वा प्राप्तधनो मरुद्गणः प्रातःकाले जगम्यात् । आगच्छतु ॥ नू ष्ठिरम् । ऋचि तुनुघेति दीर्घः । पूर्वपदादिति षत्वम् । ऋतीषाहम् । ऋ गतौ । कर्तरि क्तिच् । षह अभिभवे । छंदसि सह इति ण्विप्रत्ययः । अन्येषामपि दृश्यत इति पूर्वपदस्य दीर्घत्वम् । सुषामादित्वात् षत्वम् । शूशुवांसम् । टुओश्वि गतिवृद्ध्योः । लिटः क्वसुः । विभाषा श्वेः (पा ६-१-३०) इति संप्रसारणं द्विर्वचने तुजादित्वादभ्यासस्य दीर्घत्वम् । वस्वेकाजाद्घसामिति नियमादिडभावः । प्रत्ययस्वरः ॥ १५ ॥

  • अनुवाकः  ११
  • अष्टकः 
  • अध्यायः 
  • वर्गः