मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६५, ऋक् १

संहिता

प॒श्वा न ता॒युं गुहा॒ चत॑न्तं॒ नमो॑ युजा॒नं नमो॒ वह॑न्तम् ॥

पदपाठः

प॒श्वा । न । ता॒युम् । गुहा॑ । चत॑न्तम् । नमः॑ । यु॒जा॒नम् । नमः॑ । वह॑न्तम् ॥

सायणभाष्यम्

द्वादशेऽनुवाके नव सूक्तानि । तत्र पश्वेत्यादीनि षट् सूक्तानि द्वैपदानि तेष्वध्ययनसमये द्विपदे द्वे द्वे ऋचौ चतुष्पदामेकैकामृचं कृत्वा समाम्नायते । अयुक्संख्यासु तु यांत्यातिरिच्यते सा तथैवाम्नायते । प्रायेणार्थोऽपि द्वयोर्द्विपदयोरेक एव । प्रयोगे तु ताः पृथक् पृथक् शंसनीयाः सूत्र्यते हि । पश्वा न तायुमिति द्वैपदम् (आ ८-१२) इति ॥ तत्र पश्वेति दशर्चं प्रथमं सूक्तम् । अत्रानुक्रम्यते । पश्वा दश पराशरः शाक्त्यो द्वैपदं तदिति । शक्तिपुत्रः पराशर ऋषिः । तत्पुत्रत्वं च स्मर्यते । वसिष्ठस्य सुतः शुक्तिः शक्तेः पुत्रः पराशर इति । द्विपदा विराट् छंदः । विंशतिका द्विपदा विराजः । अनु १२-८ । इति हि तल्लक्षणम् । अग्निर्देवता । परमाग्नेयमैंद्रादिति परिभाषितम् । पश्वा न तायुमित्यारभ्येत्था हीत्यतः प्राक् यत्सूक्तजातं तत्सर्वमाग्नेयमिति तस्यार्थः । द्वैपदं तदित्युक्तत्वादिदमादीन षट् सूक्तानि तुह्यादिपरिभाषया द्वैपदानि ॥ दशमेऽहनि वैश्वदेवशस्त्रे वैश्वदेवसूक्तात्पूर्वमेतद्द्वैपदं सूक्तं शंसनीयम् । सूत्रमुदाहृतं ॥

Sayana bhashya empty

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः