मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६५, ऋक् २

संहिता

स॒जोषा॒ धीरा॑ः प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ॥

पदपाठः

स॒ऽजोषाः॑ । धीराः॑ । प॒दैः । अनु॑ । ग्म॒न् । उप॑ । त्वा॒ । सी॒द॒न् । विश्वे॑ । यज॑त्राः ॥

सायणभाष्यम्

धीरा मेधाविनो देवाः सजोषाः समानप्रीतयः संतो हे अग्ने त्वा पदैर्मागे पादकृतैर्लांछनैरनु ग्मनु । अन्वगमन् । कीदृशम् । पश्वादिधनमपहृत्य दुष्ट्रवेशे गिरिगह्वरे वर्तते तद्वद्गुहा चतंतं अब्रूपायां गुहायां गच्छंतं वर्तमानम् । चततिर्गतिकर्मा । तथा च तैत्तिरीयैरग्नेरप्सु प्रवेशः समाम्नायते । स निलायत सोऽपः प्राविशत् । तै सं २-६-६-१ । इति । यद्वा । अश्वत्थगुहायां वर्तमानम् । श्रूयते च अग्निर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा सोऽश्वत्थे संवत्सरमतिष्ठदिति । तथा नमो युजानं हविर्लक्षणमन्नमात्मना संयुजानं नमो वहंतं देवेभ्यः प्रत्तं हविर्वहंतम् । यजत्रा यजनीया विश्वे सर्वे देवा हे अग्ने त्वा त्वामुप सीदन् । समीपं प्राप्नुवन् । ददृशुरित्यर्थः ॥ पश्वा । तृतीयैकवचनस्य जसादिषु च्छंदसि वावचनमिति नाभावाभावः । उदात्तयण इति विभक्तेरुदात्तत्वम् । गुहा । भिदादिषु पाठादङ् प्रत्ययांतः । वृषादिषु पाठादुद्युदात्तत्वम् । सुपां सुलुगिति सप्तम्या लुक् । युजानम् । शानचि बहुलं छंदसीति विकरणस्य लुक् । सजोषाः । जुषी प्रीतिसेवनयोः । समानं जुषंत इति सजोषसः । समानस्य च्छंदसीति सभावः । कृदुत्तरपदप्रकृतिस्वरत्वम् । सुपां सुलुगिति जसः सुः । ग्मन् । गमेर्लुङि मंत्रे घसेति च्लेर्लुक् । गमहनेत्यादिनोपधालोपः । बहुलं छंदस्यमाङ्योगेऽपीत्यडभावः । यजत्राः । अमिनक्षीत्यादिनात्रन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ १ ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः