मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६५, ऋक् ४

संहिता

वर्ध॑न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा॑तम् ॥

पदपाठः

वर्ध॑न्ति । ई॒म् । आपः॑ । प॒न्वा । सुऽशि॑श्विम् । ऋ॒तस्य॑ । योना॑ । गर्भे॑ । सुऽजा॑तम् ॥

सायणभाष्यम्

उक्त एवार्थः स्पष्टीक्रियते । देवा ऋतस्य गतस्य पलायितस्याग्नेर्व्रता व्रतानि कर्माणि गमनावस्थानशयनादिरूपाण्यनु गुः । अन्वेष्वुमगमन् । तदनंतरं परिष्टिः परितः सर्वतोऽन्वेषणं भुवत् । अभवत् । भूम भूमिरप्यग्नेरन्वेष्वृभिर्देवैर्द्यौर्न स्वर्ग इवाभूत् । इंद्रादयः सर्वे देवा अग्नेर्गवेषणाय भूलोकं प्राप्ता इत्यर्थः । आपोऽब्देवता ईमेनमुदके प्रविष्टमग्निं वर्धंति । प्रवर्धयंति । यथा देवा न पश्यंति तथारक्षन्नित्यर्थः । कीदृशम् । पन्वा स्तोत्रेण सुशिश्विं सुष्ठु प्रवर्धितम् । ऋतस्य योना । योनिरित्युदकनाम । ऋतस्य यज्ञस्यान्नस्य वा कारणभूते जले गर्भे गर्भस्थाने मध्ये सुजातं सुष्ठु प्रादुर्भूतम् । एवमप्सु वर्तमानमग्निं देवेभ्यो मत्स्यः प्रावोचत् । तदनंतरं देवास्तमज्ञासिषुरिति भावः । तथा च तैत्तिरीयकम् । स निलायत सोऽपः प्राविशस्तं देवताः प्रैषमैच्छन् तं मत्स्यः प्राब्रवीदिति ॥ व्रता । शेच्छंदसि बहुलमिति शेर्लोपः । गुः । इण् गतौ । इणो गा लुङीति गादेशः । गातिस्थेति सिचो लुक् । आत इति झेर्जुस् । उस्यपदांतादिति पररूपत्वम् । परिष्टिः । इषु इच्छायाम् । क्तिनि तितुत्रेतीट् प्रतिषेधः । शंकध्वादित्वात्पररूपत्वम् । पा ६-१-९४-४ । तादौ च नितीति गतेः प्रकृतिस्वरत्वम् । भूम सुपां सुलुगिति सोर्डादेशः । ह्रस्वश्छांदसः । वर्धंति । छंदस्युभयथेति शप आर्धधातुकत्वाण्णेरनिटीति णिलोपः । शपः पित्त्वादनुदात्तत्वम् । तिङश्च लसार्वधातुकस्वरेण धातुस्वरः शिष्यते । पन्वा । पन स्तुतौ । औणादिको भाव उप्रत्ययः । सुशिश्वम् । टुओश्वि गतिवृद्ध्योः । आदृगमहनजन इत्यत्रोत्सर्गश्छंदसि । पा ३-२-१७१-२ । इति वचनात्किप्रत्ययः । वचिस्वपीत्यादिना संप्रसारणम् । लिड्वद्भावाद्द्विर्भावे बहुलं छंदसीत्युकारस्येत्वम् । छांदसो यणादेशः । सुः पूजायाम् (पा १-४-९४) इति सो कर्मप्रवचनीयत्वम् । स्वती पूजायाम् (पा २-२-१८) इति प्रादिसमासः । अव्ययपूर्वपदप्रकृतिस्वरत्वं ॥ ३ ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः