मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६५, ऋक् ८

संहिता

यद्वात॑जूतो॒ वना॒ व्यस्था॑द॒ग्निर्ह॑ दाति॒ रोमा॑ पृथि॒व्याः ॥

पदपाठः

यत् । वात॑ऽजूतः । वना॑ । वि । अस्था॑त् । अ॒ग्निः । ह॒ । दा॒ति॒ । रोम॑ । पृ॒थि॒व्याः ॥

सायणभाष्यम्

सिंधूनां स्यंदनशीलानामपामयमग्निर्जामिर्बंधुः । तासुमुत्पादकत्वात् । तथा चाम्नातम् । अग्नेराप इति । यद्वा । देवेभ्यः पलायितोऽप्सु वर्तमानः सन् तासामपां बंधुर्बभूवेत्यर्थः । तत्र दृष्टांतः । स्वस्रां स्वसृणां भ्रातेव । यथा भ्रातातिशयेन हितकरो भवति तद्वत् । तादृशोऽग्निर्वनानि महांत्यरण्यान्यत्ति । भक्षयति । दहतीत्यर्थः । तत्र निदर्शनं राजेभ्यान्न । भियं यंतीति नैरुक्तव्युत्पत्त्येभ्याः शत्रवः । तान्यथा समूलं हिनस्ति तद्वत् । यद्वा । इभ्या धनिनः । तान्यथा धनमपहरन्राजा हिनस्ति तद्वदित्यर्थः । अपि च यद्यदा वातजूतो वातेन प्रेरितः सन्वना वनान्यरण्यानि व्यस्थात् उक्तप्रकारेण विविधमातिष्ठति दग्धुं प्रवर्तते तदानीमग्निर्हासावग्निरेव पृथिव्या भूमेः संबंधीनि रोमौषधिरूपाणि रोमाणि दाति । छिनत्ति । भूम्यामोषधिवनस्पतिजातं यदस्ति तत्सर्वं दहतीति भावः ॥ स्वस्राम् । आमो नुडभावश्छांदसः । अस्थात् । लुङि गातिस्थेति सिचो लुक् । दाति । दाप् लवने । आदादित्वाच्छपो लुक् ॥ ७ ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः