मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६५, ऋक् १०

संहिता

सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा॑ वि॒भुर्दू॒रेभा॑ः ॥

पदपाठः

सोमः॑ । न । वे॒धाः । ऋ॒तऽप्र॑जातः । प॒शुः । न । शिश्वा॑ । वि॒ऽभुः । दू॒रेऽभाः॑ ॥

सायणभाष्यम्

अयमग्निर्देवेभ्यः पलायितः सन्नप्सूदकेषु श्वसिति । प्राणिति । निगूढो वर्तत इत्यर्थः । तत्र दृष्टांतः । हंसो न सीदन् । उदकमध्य उपविशन्हंस इव । कीदृशोऽग्निः । क्रत्वा क्रतुना ज्ञानहेतुनात्मीयेन प्रकाशेन विशां प्रजानां चेतिष्ठोऽतिशयेन चेतयिता ज्ञापयिता । रात्रौ हि सर्वे जना अंधकारावृतं सर्वमग्नेः प्रकाशाज्जानंति । उषर्भुत् उषस्युषःकालेऽग्नि होत्रादौ प्रबुद्धः सोमो न वेधाः सोम इव विधाता स्रष्टा । सोमो यथा सकलमोषधिरूपं भोग्यजातं सृजति । सोमो वा ओषधीनां राजा । तै सं ६-१-९-१ । इति श्रुतेः । तथा सकलं भोक्तृजातं सृजति । अग्नेरेव भोक्तृरूपेणावस्थानात् । तथा च तैत्तरीयकम् । अग्निरन्नादोऽन्नपतिरिति । वाजसनेयकेऽपि भोक्तृभोग्ययोरग्नीषोमात्मकत्वमाम्नातम् । एतावद्वा इदमन्नं चैवान्नादश्च सोम एवान्नमग्निरन्नाद इति । ऋतप्रजातः । ऋतमित्युदकनाम । ऋतावुदकात्प्रादुर्भूतः पशुर्न शिश्वा । उदकमध्ये वर्तमानोऽग्निः शयानः पशुरिव तनूकृतः संकुचितगात्रोऽभूत् । ततः प्रादुर्भूतः सन्विभुः प्रभूतः संपन्नः । यद्वा । शिश्वा शिशुना गर्भस्थेन वत्सेन सहिता गौरिव विभुः प्रभू तावयवो जात इत्यर्थः । दूरेभाः । दूरे विप्रकृष्वदेशेऽपि भाः प्रकाशो यस्य स तथोक्तः । एवंभूतोऽग्निरप्सु श्वसितीति पूर्वेण संबंधः ॥ श्वसिति । श्वस प्राणने । अदादित्वाच्छपो लुक् । रुदादिभ्यः सार्वधातुके (पा ७-२-७६) इतीडागमः । तिपः पित्त्वादनुदात्तत्वे धातुस्वरः । शिष्यते । क्रत्वा । जसादिषु च्छंदसि वावचनमिति नाभावाभावः । उषसि बुध्यत इत्युषर्भुत् । बुध अवगमने । क्विप्चेति क्विप् । एकाचो बश इति भष्भावः । अहरादीनां पत्यादिषूपसंख्यानम् (म ८-२-७०) इति सकारस्य रेफादेशः । शिश्वा । शो तनूकरणे । आदेच इत्यात्वम् । शः कित्सन्वच्च (उ १-२१) इत्युप्रत्ययः । सन्वद्भावाद्द्विर्भावेत्वे । अत एव नित्त्वादाद्युदात्तत्वम् । किद्वद्भावादातो लोप इट चेत्याकारलोपः । प्रथमपक्षे सुपां सुलुगिति सोराकारः । द्वितीये तु पूर्ववन्नाभावाभावः । दूरेभाः । तत्पुरुषे कृति बहुलमिति बहुव्रीहावपि बहुलवचनादलुक् । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वं ॥ ९ ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः