मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६६, ऋक् १

संहिता

र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ॥

पदपाठः

र॒यिः । न । चि॒त्रा । सूरः॑ । न । स॒म्ऽदृक् । आयुः॑ । न । प्रा॒णः । नित्यः॑ । न । सू॒नुः ॥

सायणभाष्यम्

रयिरिति दशर्चं द्वैपदमध्ययनतः पंचर्चं द्वितीयं सूक्तं पराशरस्यार्षमाग्नेयम् । अनुक्रांतं च । रयिरिति ॥ विनियोगो लैंगिकः ॥

Sayana bhashya empty

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०