मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६६, ऋक् २

संहिता

तक्वा॒ न भूर्णि॒र्वना॑ सिषक्ति॒ पयो॒ न धे॒नुः शुचि॑र्वि॒भावा॑ ॥

पदपाठः

तक्वा॑ । न । भूर्णिः॑ । वना॑ । सि॒स॒क्ति॒ । पयः॑ । न । धे॒नुः । शुचिः॑ । वि॒भाऽवा॑ ॥

सायणभाष्यम्

अयमग्नी रयिर्न धनमिव चित्रा चायनीयो विचित्ररूपो वा सूरो न सूर्य इव संदृक् संद्रष्टा सर्वेषां वस्तूनां दर्शयिता आयुर्न प्राण आयुर्मुखे संचरन् प्राणः प्रश्वसन्वायुरिव प्रियतमः । यद्वा । यथा प्राणवायुरायुर्जीवनमवस्थापयति । तथा चाम्नायते । यावद्ध्यस्मिन् शरीरे प्राणो वसति तावदायुरिति । एवमग्निरपि जाठररूपेणायुषोऽवस्थापयिता । नित्यो न सूनुर्नित्यो ध्रुवः पुत्र इव प्रियकारी । यथौरसः पुत्रः पितुर्हितमेवाचरति तद्वदयमपि हितस्य स्वर्गस्य प्रापयिता । तथा चाम्नायते । पुत्रः पित्रे लोककृज्जातवेदः । तै । ब्रा । ३-७-७-१० । इति । तक्वा न गतिमानश्व इव भूर्णिर्भर्ता । यथा श्व उपर्यारूढं पुरुषं बिभर्ति धारयति पोषयति वा तद्वदयमपीत्यर्थः । पयो न धेनुः पय इव प्रीणयिता शुचिर्दीप्तः विभावा विशिष्टप्रकाशयुक्तः । एवंगुणविशिष्टोऽग्निर्वना वनान्यरण्यानि सिषक्ति । दग्धुं समवैति । सेवते वा ॥ चित्रा । सुपां सुलुगिति सोः पूर्वसवर्णदीर्घत्वम् । नित्यः । नेर्ध्रुवे (म ४-७-१०४) इति त्यप् । प्रत्ययस्य पित्त्वादनुदात्तत्व उपसर्गस्वर एव शिष्यते । तक्वा । तक हसने । गतिकर्मसु पठितत्वादत्र गत्यर्थः । तकति गच्छतीति तक्वा । अन्येभोऽपि दृश्यंत इति वनिप् । भूर्णिः । घृणिः पृश्निरित्यदौ भरतेर्निप्रत्ययांतो निपातितः ॥ १ ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०