मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६६, ऋक् ४

संहिता

ऋषि॒र्न स्तुभ्वा॑ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो॑ दधाति ॥

पदपाठः

ऋषिः॑ । न । स्तुभ्वा॑ । वि॒क्षु । प्र॒ऽश॒स्तः । वा॒जी । न । प्री॒तः । वयः॑ । द॒धा॒ति॒ ॥

सायणभाष्यम्

अयमग्निः क्षेमं लब्धस्य धनस्य रक्षणं दाधार । धारयति । स्तोतृभ्यो दत्तस्य धनस्य रक्षणं कर्तुं शक्नोतीति भावः । ओको न निवासस्थानं गृहमिव रण्वो रमणीयः । यद्वा गंतव्यः । गृहवत्सर्वैः । प्राप्यत इत्यर्थः । यवो न यव इव पक्वः । यथा पक्वो यव उपभोगयोग्यो भवति तद्वदग्निरपि पाकादिकार्यहेतुतयोपभोग्य इत्यर्थः । जनानां जेता शत्रुजनानां मध्येऽभिभविता ऋषिर्न मंत्रद्रष्टा ऋषिरिव स्तुभ्वा देवानां स्तोता विक्षु यजमानलक्षणेषु मनुष्येषु प्रशस्तः । प्रख्यातः वाजी न अश्व इव प्रीतो हर्षयुक्तः । यथाश्वो हर्ष युक्तो युद्धाभिमुखं गच्छति तद्वदयमपि देवानां हविर्वहने हर्षयुक्तो भवतीत्यर्थः । एवंभूतोऽग्निर्वयोऽन्नं दधाति । दधातु । अस्मभ्यं ददात्वित्यर्थः । वय इत्यन्ननाम । वयः क्षद्मेति तन्नामसु पाठात् ॥ दाधाक । तुजादीनामित्यभ्यासस्य दीर्घत्वम् । क्षेमम् । क्षियति निवसत्य नेनेति क्षेमः । अर्तिस्तुस्वित्यादिना मन् । नित्त्वादाद्युदात्तत्वम् । रण्वः । रवि धवि गत्यर्थाः । अस्मात्कर्णणि कप्रत्ययः । इदित्त्वान्नुम् । जेता । तृनंत आद्युदात्तः । जनानाम् । यतश्च निर्धारणम् (पा २-३-४१) इति निर्धारणे षष्ठी । नेयं कर्मणि षष्ठीति न लोकाव्ययनिष्ठेति षष्ठीप्रतिषेधो न भवति । स्तुभ्वा । स्तोभतिः स्तुतिकर्मा । अन्येभ्योऽपि दृश्यंत इति क्वनिप् ॥ ३ ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०