मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६६, ऋक् ६

संहिता

चि॒त्रो यदभ्रा॑ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ॥

पदपाठः

चि॒त्रः । यत् । अभ्रा॑ट् । श्वे॒तः । न । वि॒क्षु । रथः॑ । न । रु॒क्मी । त्वे॒षः । स॒मत्ऽसु॑ ॥

सायणभाष्यम्

दुरोकशोचिर्दुष्प्रापतेजाः क्रतुर्न नित्यः । क्रतुः कर्मणां कर्ता । स इव ध्रुवः । यथा स कर्मसु ध्रुवोऽप्रमत्तः सन् जागर्ति तद्वदयमप्यग्निः कर्मसु रक्षसां दहने ध्रुवो जागर्तीत्यर्थः । योनौ गृहे वर्तमाना जायेव योषिदिव अग्नि होत्रादिगृहे वर्तमानो वन्हिर्विश्वस्मै सर्वस्मै यष्वृजनायारमलं भूषणं भवति । यथा जायया गृहमलं कृतं भवति तद्वदग्निना यज्ञगृहमप्यलंकृतं सद्दृश्यत इत्यर्थः । चित्रश्चायनीयो विचित्रदीप्तिर्वा यद्यदायमग्निरभ्राट् भ्राजते तदानीं श्वेतो न शुभ्रवर्ण आदित्य इव भवति । रात्रौ ह्यहनि सूर्य इवाग्निः प्रकाशको भवति । विक्षु प्रजासु रथो न रथ इव रुक्मी सुवर्णवद्रोचमानदीप्तियुक्तः समत्सु संग्रामेषु त्वेषो दीप्तः । एवं भूतोऽग्निर्यदभ्राडिति पूर्वेणान्वयः ॥ दुरोकशोचिः । उच समवाये । ईषद्दुःसुष्विति कृच्छ्रार्थे खल् । बहुलवचनात्कुत्वम् । लित्स्वरेण ष्रत्ययात्पूर्वस्योदात्तत्वम् । दुरोकं शोचिस्तेजो यस्य । बहुव्रीहौ पूर्वपदप्रकृतिस्वरत्वम् । अरम् । वालमूलेत्यादिना (म ८-२-१८) लकारस्य रेफादेशः । अभ्राट् । भ्राजृ दीप्तौ । लङि व्यत्ययेन परस्मैपदम् । बहुलं छंदसीति शपो लुक् । व्रश्चादिषत्वे जश्त्वम् । अडागम उदात्तः । यद्वृत्तयोगादनिघातः । समत्सु । समानं माद्यंत्येष्विति समदः संग्रामाः । औणादिकोऽधिकरणे क्विप् । समानस्य च्छंदसीति सभावः । यद्वा । सम्यगत्ति भक्षयति वीरानिति समत् । संपूर्वादत्तेः क्विप्चेचि क्विप् ॥ ५ ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०