मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६६, ऋक् ८

संहिता

य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी॑नाम् ॥

पदपाठः

य॒मः । ह॒ । जा॒तः । य॒मः । जनि॑ऽत्वम् । जा॒रः । क॒नीना॑म् । पतिः॑ । जनी॑नाम् ॥

सायणभाष्यम्

सृष्टा प्रेरिता सेनेव स्वामिना सह वर्तमाना भटसंहतिरवायमग्निरमं शत्रूणां भयं दधाति । सा यथा बलवती तद्वदग्निरपि बलवानित्यर्थः । निदर्शनांतरमुच्यते । दिद्युदिति वज्रनाम । तेन चात्रेषुर्लक्ष्यते । त्वेषप्रतीका दीप्तमुखास्तुर्न दिद्युत् क्षेप्तुः संबंधिनीषुरिव । सा यथा भीषयते तद्वदग्निरपि राक्षसादीन् भीषयत इत्यर्थः । अत्र निरुक्तम् । सेनेव सृष्टा भयं वा बलं वा दधात्यस्तुरिव दिद्युत्त्वेषप्रतीकेत्यादि । नि १०-२१ । यच्छति ददाति स्तोतृभ्यः कामानिति यमोऽग्निरुच्यते । यद्वा । इंद्राग्न्योर्युगपदुत्पन्नत्वादग्नेर्यमत्वम् । अस्मिन्नर्थे यास्केन मंत्रब्राह्मणे दर्शिते । यमो ह जात इंद्रेण सह संगतिः । यमाविहेह मातरेत्यपि निगमो भवतीति । यो जात उत्पन्नो भूतसंघो यच्च जनित्वं जनयितव्यमुत्पत्स्यमानं भूतजातं तदुभयमपि यमो ह अग्निरेव । सर्वेषां भावानामाहुतिद्वाराग्न्यधीनत्वात् । कनीनां कन्यकानां जारो जरयिता । यतो विवाहसमय अग्नौ लाजादिद्रव्यहोमे सति तासां कन्यात्वं निवर्तते । अतो जरयितेत्युच्यते । तथा जनीनां जायानां कृतविवाहानां पतिर्भर्ता । तथा चाख्यायते । अनुपजातपुरुषसंभोगेच्छावस्थां स्त्रियं सोमो लेभे । स च सोम ईषदुपजातभोगेच्छां तां विश्वावसवे गंधर्वाय प्रादात् । स च गंधर्वो विवाहसमयेऽग्नये प्रददौ । अग्निश्च मनुजाय भर्त्रे धनपुत्रैः सहितामिमां प्रायच्छदिति । इममर्थं काचिदृक् स्पष्टं ब्रूते । सोमो ददद्गंधर्वाय गंधर्वो दददग्नये । रयिं च पुत्रांश्चादादग्निर्मह्यमथो इमाम् । ऋ । सं १०-८५-४१ । इति । यास्कस्त्वाह । तृतीयो अग्निष्टे पतिरित्यपि निगमो भवति । नि १०-२१ । इति । यद्वा । जनीनां पालयिता यतोऽयमनुष्ठितैर्यागैः फलं प्रयच्छति ॥ सेनेव । इनेन सह वर्तत इति सेना । वोपसर्जनस्येति सभावः । बहुव्रीहिस्वरः । जनित्वम् । जनी प्रादुर्भावे । कृत्यार्थे तवैकेनिति कर्मणि त्वन्प्रत्ययः । इडागमः । नित्त्वादाद्युदात्तत्वम् । जारः । जरयतीति जारः । दारजारौ कर्तरि णिलुक्च । पा ३-३-२०-४ । इति निपात्यते । कनीनाम् । कन्याशब्दात् षष्ठ्येकवचने बहुलं छंदसीति बहुलग्रर्हणात्संप्रसारणम् । परपूर्वत्वम् । जनीनाम् । जन्यंत आस्विति जनयः स्त्रियः । इन्सर्वधातुभ्य इतीन्प्रत्ययः । नित्त्वादाद्युदात्तत्वं ॥ ७ ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०