मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६६, ऋक् १०

संहिता

सिन्धु॒र्न क्षोद॒ः प्र नीची॑रैनो॒न्नव॑न्त॒ गाव॒ः स्व१॒॑र्दृशी॑के ॥

पदपाठः

सिन्धुः॒ । न । क्षोदः॑ । प्र । नीचीः॑ । ऐ॒नो॒त् । नव॑न्त । गावः॑ । स्वः॑ । दृशी॑के ॥

सायणभाष्यम्

व इति व्यत्ययेन बहुवचनम् । हे अग्ने तं त्वां चराथा । चरतीति चरथः पशुः । तत्प्रभवैर्हृदयादिभिः साध्याहुतिरपि चरथेत्युच्यते । उपचारात्कार्ये कारणशब्दः । चराथा चरथया पशुप्रभवहृदयादिसाधनयाहुत्या । वसत्या । वसति निवसतीति स्थावरो व्रीह्यादिर्वसतः । पूर्ववत्तत्साध्याहुतिर्लक्ष्यते । वसत्या पुरुडाशाद्याहुत्या च वयमिद्धं प्रदीप्तमग्निं नक्षंते । व्याप्नुयाम । पुरुषव्यत्ययः । तत्र दृष्टांतः । अस्तं न गावः । अस्तमिति गृहनाम । यथा गावो गृहं व्याप्नुवंति तद्वत् । अत्र यास्कः । तं वश्चराथा चरंत्या पश्वाहुत्या वसत्या च निवसंत्यौषधाहुत्यास्तं यथा गाव आप्नुवंति तथाप्नुयाम । नि १०-२१ । इति । अयमग्निः सिंधुर्न क्षोदः स्यंदनशीलमुदकमिव नीचीर्नितरामंचतीरितस्ततो नितरामुद्गच्छंतीर्ज्वालाः प्रैनोत् । प्रेरयति । यथा जलप्रवाहो निम्नदेशे शीघ्रं गच्छति तद्वदग्नेर्ज्वाला दग्धव्यं प्रति गच्छंतीति भावः । स्वर्नभसि वर्तमाने दृशीके दर्शनीये तस्मिन्नग्नौ गावो गमनस्वभावा रश्मयो नवंत । संगच्छंते । नवतिर्गतिकर्मा ॥ चराथा । चरेरौणादिकोऽथक्प्रत्ययः । दीर्घश्छांदसः । सुपां सुलुगिति विभक्तेराकारः । वसत्या । वहिवस्यर्तिभ्यश्चित् (उ ४-६०) इत्यतिप्रत्ययः । उदात्तयण इति विभक्तेरुदात्तत्वम् । अस्तम् । अस्यतेऽस्मिन्सर्वमित्यस्तं गृहम् । असिहसीत्यादिना तन् । तितुत्रेतीट्प्रतिषेधः । नित्त्वादाद्युदात्तत्वम् । नक्षंते । नक्षतिर्व्याप्तिकर्मा । नक्ष गतौ । व्यत्ययेनात्मनेपदम् । चादिलोपे विभाषेतिः निघाताभावः । नीची । निपूर्वादंचतेश्चोपसंख्यानम् । पा ४-१-६-२ । इति ङीप् । आच इत्यकारलोपे चामिति दीर्घत्वम् । न्यधी च (पा ६-२-५३) इति गतेः प्रकृतिस्वरत्वम् । ऐनोत् । इण् गतौ । अंतर्भावितण्यर्थाच्छंदसि लुङ् लङ् लिट इति वर्तमाने लङि व्यत्ययेन श्नुः । आडागमो वृद्धिश्च । दृशीके । दृशिर् प्रेक्षणे । अनिदृशिभ्यां चेति कीकन्प्रत्ययः । नित्त्यादाद्युदात्तत्वं ॥ ९ ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०