मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६७, ऋक् २

संहिता

क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता॑ हव्य॒वाट् ॥

पदपाठः

क्षेमः॑ । न । सा॒धुः । क्रतुः॑ । न । भ॒द्रः । भुव॑त् । सु॒ऽआ॒धीः । होता॑ । ह॒व्य॒ऽवाट् ॥

सायणभाष्यम्

वनेषु जायुररण्येषु जायमानो मर्तेषु मनुष्येषु मित्रः सखा सोऽयमग्निः श्रुष्टिम् । शु आश्वश्नुते कर्माणि व्याप्नोतीति श्रुष्टिर्यजमानः । क्षिप्रेण कर्मणामनुष्ठातेत्यर्थः । तथा च यास्कः । श्रुष्टीति क्षिप्रनामाशु अष्टीति (नि ६-१२) एवंभूतं यजमानं वृणीते । संभजते । अनेन प्रत्तं हविः स्वीकृत्य रक्षतीति भावः । तत्र दृष्टांतः । राजेवाजुर्यम् । अजुर्यं जरारहितं दृढांगं सर्वकार्येषु शक्तमित्यर्थः । एवंभूतं पुरुषं यथा राजा वृणीते तद्वत् । क्षेमो न रक्षक इव साधुः साधयिता क्रतुर्न । क्रतुः कर्मणां कर्ता । स इव भद्रो भजनीयः कल्याणो वा होता देवानामाह्वाता हव्यवाट् हव्यवाहनो नाम देवानामग्निः । तथा चाम्नायते । त्रयो वा अग्नयो हव्यवाहनो देवानां कव्यवाहनः पितृणां सहरक्षा असुराणाम् । तै सं २-५-८-६ । इति । एवंभूतोऽग्निः स्वाधीः शोभनकर्मा शोभनाध्यानो वा भुवत् । भवतु ॥ जायुः । जि जये । कृवापाजीत्युण् । अजुर्यम् । जृष् वयोहानौ । भावे ण्यत् । वृद्धौ कृतायामाकारस्य व्यत्ययेनोकारः । जुर्यं जरा नास्त्यस्येति बहुव्रीहौ नञ्सुभ्यामित्युत्तरपदांतोदात्तत्वम् । भुवत् । भवतेर्लेट्यडागमः । बहुलं छंदसीति विकरणस्य लुक् । भूसुवोस्तिङीति गुणप्रतिषेधः ॥ १ ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११