मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६७, ऋक् ४

संहिता

वि॒दन्ती॒मत्र॒ नरो॑ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं॑सन् ॥

पदपाठः

वि॒दन्ति॑ । ई॒म् । अत्र॑ । नरः॑ । धि॒य॒म्ऽधाः । हृ॒दा । यत् । त॒ष्टान् । मन्त्रा॑न् । अशं॑सन् ॥

सायणभाष्यम्

विश्वानि सर्वाणि नृम्णा नृम्णानि हविर्लक्षणानि धनानि हस्ते स्वकीये बाहौ दधानो धारयन्नयमग्नि र्गुहा गुहायामप्सु मध्येऽश्वत्थादौ वा संवृतप्रदेशे निषीदन् निगूढो वर्तमानः सन्नमे भये देवान्धात् । अस्थापयत् । अग्नौ हविर्भिः सह पलायिते सति सर्वे देवा अभैषुरित्यर्थः । नरो नेतारो धियंधाः । कर्मणां बुद्धीनां वा धारयितारो देवा अत्रास्मिन्काल ईमेनमग्निं विदंति । जानंति । यद्यदा हृदा हृदयावस्थितया बुद्ध्या तष्टान्निर्मितानग्निस्तुतिपरान्मंत्रानशंसन् अस्तुवन् । अवोचन्नित्यर्थः ॥ निषीदन् । सदेरप्रतेरिति षत्वम् । विदंति । विद ज्ञाने । अदादित्वाच्छपो लुक् । प्रत्ययस्वरः । धियंधाः । आतोऽनुपसर्गे क इति कः । तत्पुरुषे कृति बहुलमिति बहुलवचनाद्द्वितीयाया अप्यलुक् । तष्वान् । तक्षू त्वक्षू तनूकरणे । निष्ठा । यस्य विभाषेतीट् प्रतिषेधः । स्कोः संयोगाद्योरिति कलोपः ॥ ३ ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११