मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६७, ऋक् ८

संहिता

वि ये चृ॒तन्त्यृ॒ता सप॑न्त॒ आदिद्वसू॑नि॒ प्र व॑वाचास्मै ॥

पदपाठः

वि । ये । चृ॒तन्ति॑ । ऋ॒ता । सप॑न्तः । आत् । इत् । वसू॑नि । प्र । व॒वा॒च॒ । अ॒स्मै॒ै ॥

सायणभाष्यम्

यः पुमान् ईमेनं गुहा भवंतं गुहायां संतमग्निं चिकेत जानाति । यश्च ऋतस्य सत्यस्य यज्ञस्य वा धारां धारायितारमेनमग्निना ससाद आसीदति । उपास्त इत्यर्थः । ये च ऋता ऋतानि सत्यानि यज्ञान्वा सपंतः समवयंतः स्पृशंतो वा पुरुषा एतमग्निं वि चृतंति अग्निमुद्दिश्य स्तुतीर्ग्रथ्नंति । कुर्वंतीत्यर्थः । आदित् स्तुत्यनंतरमेवास्मै सर्वस्मै स्तोतृजनाय वसूनि धनानि प्र ववाच । प्रकथयति ॥ चिकेत । कित ज्ञाने । लिट णलि लित्स्वरः । चृतंति । चृती हिंसाग्रंथनयोः । तौदादिकः । लसार्वधातुकानुदात्तत्वे विकरणस्वरः शिष्यते । ववाच । लिट ब्रुवो वचिः । लिट्यभ्यासस्योभयेषाम् (पा ६-१-१७) इत्यभ्यासस्य संप्रसारणम् । संप्रसारणाच्चेति परपूर्वत्वस्य वा छंदसि (पा ६-१-११६) इति विकल्पनाद्यणादेशः ॥ ७ ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११