मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६७, ऋक् १०

संहिता

चित्ति॑र॒पां दमे॑ वि॒श्वायु॒ः सद्मे॑व॒ धीरा॑ः स॒म्माय॑ चक्रुः ॥

पदपाठः

चित्तिः॑ । अ॒पाम् । दमे॑ । वि॒श्वऽआ॑युः । सद्म॑ऽइव । धीराः॑ । स॒म्ऽमाय॑ । च॒क्रुः॒ ॥

सायणभाष्यम्

योऽग्निर्वीरुत्स्वोषधीषु महित्वा यानि महत्त्वानि संति तानि विरोधत् विरुणद्धि विशेषेणावृणोति नावशेषयति । उतापि च प्रजाः प्रकर्षेणोत्पन्नाः पुष्पफलादिलक्षणाः प्रसूषूत्पादयित्रीषु मातृस्थानीयास्वोषधीष्वंतर्मध्ये विरुणद्धीत्येव । द्वितीय उतशब्दः पादपूरणः । तथा चित्तिश्चेतयिता ज्ञापयितापां दमे जलानां मध्यभूते गृहे विश्वायुः सर्वान्नो योऽग्निर्वर्तत इति शेषः । तमग्निं धीरा मेधाविनः संमाय संमाननं पूजनं कृत्वा । स्तुतिभिः स्तुत्वेत्यर्थः । चक्रुः । कर्माणि कुवंति । तत्र दृष्टांतः । सद्मेव । यथा सदनं गृहं प्रथमतः संपूज्य पश्चात्तत्र कर्माण्याचरंति तद्वत् ॥ वीरुत्सु । विपूर्वाद्रोहतेः क्विप् । न्यंक्वादिषु वीरुध् (पा ७-३-५३) इति पठितत्वादुपसर्गस्य दीर्घो धकारश्चांतादेशः । उक्तं च । वीरुध ओषधयो भवंति (नि ६-३) रोधत् । रुधिर् आवरणे । लेट्यडागमः । इतश्च लोप इतीकारलोपः । संमाय माङ् माने शब्दे च । समासेऽनञ्पूर्वे क्त्वो ल्यप् । ७-१-३७ । न ल्यपि (पा ६-४-६९) इतीत्व प्रतिषेधः ॥ ९ ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११