मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६८, ऋक् २

संहिता

परि॒ यदे॑षा॒मेको॒ विश्वे॑षां॒ भुव॑द्दे॒वो दे॒वानां॑ महि॒त्वा ॥

पदपाठः

परि॑ । यत् । ए॒षा॒म् । एकः॑ । विश्वे॑षाम् । भुव॑त् । दे॒वः । दे॒वाना॑म् । म॒हि॒ऽत्वा ॥

सायणभाष्यम्

भुरण्युर्हविषां भर्ता धारयिता पयः प्रभृतिना श्रयणद्रव्येण सोममिव तैर्हविर्भिः श्रीणन् मिश्रयन्दिवमुप स्थात् उपतिष्ठति । प्राप्नोतीत्यर्थः । स्थातुः स्थावरं चरथं जंगमं तदुभयात्मकं जगदक्तून् सर्वा रात्रीश्च व्यूर्णोत् । स्वतेजसा विशेषेणाच्छादयति । हविर्वहनं कुर्वन्सर्वमपि जगत्स्वभासा प्रकाशयति स्मेति भावः । विश्वेषां सर्वेषां देवानां दानादिगुणयुक्तानामिंद्रादीनां मध्ये देवो द्योतमान एक एवायमग्निरेषां पूर्वोक्तानां स्थावरादीनां महित्वा महत्त्वानि महात्म्यानि यद्यस्मात्परि भुवत् परिभवति परिगृह्णाति परितो व्याप्य वर्तते । परिपूर्वो भवतिः परिग्रहार्थः । यद्वा । एषां विश्वेषां स्थावरादीनां मध्ये वर्तमानोऽयं देवोऽग्निर्देवानां महत्त्वानि यद्यदा परि भुवत् परितो व्याप्नोति । तदानीमिति पूर्वत्रान्वयः ॥ ऊर्णोत् ऊर्णुञ् आच्छादने । ऊर्णोतेर्विभाषा (पा ७-२-६) इति वृद्धेर्विकल्पः ॥ १ ॥ २ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२