मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६८, ऋक् ४

संहिता

भज॑न्त॒ विश्वे॑ देव॒त्वं नाम॑ ऋ॒तं सप॑न्तो अ॒मृत॒मेवै॑ः ॥

पदपाठः

भज॑न्त । विश्वे॑ । दे॒व॒ऽत्वम् । नाम॑ । ऋ॒तम् । सप॑न्तः । अ॒मृत॑म् । एवैः॑ ॥

सायणभाष्यम्

हे देव द्योतमानाग्ने जीवो जीवन्प्रज्वलन् शुष्कान्नीरसादरणिरूपात्काष्ठाद्यद्यदा जनिष्ठाः प्रादुर्भवसि मथनेनोत्पद्यसे आदित् अनंतरमेव विश्वे सर्वे यजमानास्ते तुभ्यं क्रतुं कर्म जुषंत । सेवंते । अनुतिष्ठंति । तथानुष्ठाय च विश्वे ते सर्वे नाम नामकमृतमवितथं देवत्वं देवतात्वं भजंत । भजंते । प्राप्नुवंति । किं कुर्वंतः । अमृतममरणं त्वामेवैस्त्वां गंतृभिः स्तोत्रैः संपतः समवयंतः । प्राप्नुवंत इत्यर्थः ॥ जुषंतेत्यादीनि त्रीण्याख्यातानि च्छंदसि लुङ् लङ् लिट इति वर्तमानार्थानि । एवैः । यंति स्तोतव्याभिमुख्येन गच्छंतीत्येवानि स्तोत्राणि । इण् शीङ् भ्यां वन् । उ १-१५२ ॥ ३ ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२