मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६८, ऋक् ६

संहिता

यस्तुभ्यं॒ दाशा॒द्यो वा॑ ते॒ शिक्षा॒त्तस्मै॑ चिकि॒त्वान्र॒यिं द॑यस्व ॥

पदपाठः

यः । तुभ्य॑म् । दाशा॑त् । यः । वा॒ । ते॒ । शिक्षा॑त् । तस्मै॑ । चि॒कि॒त्वान् । र॒यिम् । द॒य॒स्व॒ ॥

सायणभाष्यम्

ऋतस्य गतस्य देवयजनं प्राप्तस्याग्नेः प्रेषाः प्रकर्षेणेष्यमाणाः स्तुतयः क्रियंते । धीतिः । धीयते सोमः पीयतेऽस्मिन्निति धीतिर्यागः । सोऽपि ऋतस्य देवयजनदेशं प्राप्यस्याग्नेरेव क्रियते । अतः सोऽग्निर्विश्वायुः । विश्वं सर्वमायुरन्नं यस्य स तथाविधो भवति । अपि चास्मै विश्वे सर्वे यजमाना अपांसि दर्शपूर्णमासादीनि कर्माणि चक्रुः । कुर्वंति । हे अग्ने तुभ्यं यो दाशान् चरुपुरोडाशादीनि हवींषि ददाति । यो वान्योऽपि यो यजमानस्ते शिक्षात् त्वदीयं कर्म कर्तुं शक्तो भूयासमितीच्छति । उभयविधाय तस्मै यजमानाय चिकित्वात् तत्कृतमनुष्ठानं ज्ञानंस्त्वं रयिं दयस्व । धनं देहि ॥ दाशात् । दाशृ दाने । लेट्याडागमः । शिक्षात् । शक्लृ शक्तौ । इच्छार्थे सन् । सनि मीमाघुरभलभशकेत्यकारस्येसादेशः (पा ७-४-५४) अत्रलोपोऽभ्यासस्येत्यभ्यासलोपः । स्कोः संयोगाद्योरिति सकारलोपः । पूर्ववल्लेट्याडागमः । चिकित्वान् । कित ज्ञाने । लिटः क्वसुः । दयस्व । दय दानगतिरक्षणहिंसादानेषु ॥ ५ ॥ ६ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२