मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६८, ऋक् १०

संहिता

वि राय॑ और्णो॒द्दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू॑नाः ॥

पदपाठः

वि । रायः॑ । औ॒र्णो॒त् । दुरः॑ । पु॒रु॒ऽक्षुः । पि॒पेश॑ । नाक॑म् । स्तृऽभिः॑ । दमू॑नाः ॥

सायणभाष्यम्

अस्याग्नेः शासं शासनं तुरासस्त्वरमाणाः संतो ये यजमानाः श्रोषन् शृण्वंति ते सर्वे तेनानुशिष्टं क्रतुं कर्म जुषंत । सेवंते । तत्र दृष्टांतः । पितुर्नपुत्राः । यथा पुत्रा पुरु बहुलं त्रायकाः पुन्नाम्नो नरकाद्वा रक्षकास्तनयाः पितुराज्ञां कुर्वंति तद्वत् । पुत्रः पुरु त्रायते निपरणाद्वा पुन्नरकं ततस्त्रायत इति वा (नि २-११) इति यास्कः । पुरुक्षुः । क्षु इत्यन्ननाम । बह्वन्नः सोऽग्निरेषां यजमानानां दुरो द्वाराणि यज्ञस्य द्वारभूतानि रायो धनानि व्यौर्णोत् । विवृणोति । प्रकाशयति । ददातीति यावत् । अपि च दमूना दमे यज्ञगृहे मनो यस्य सोऽग्निः । नास्मिन्नकं दुःखमस्तीति नाको द्युलोकः । तम् । स्तृभिरिति नक्षत्रनाम । स्तृभिर्नक्षत्रैः पिपेश । अवयवीचकार । नक्षत्रैर्युक्तमकरोदित्यर्थः ॥ श्रोषन् । श्रु श्रवणे । लेट्यडागमः । सिब्बहुलं लेटीति सिप् । बहुलं छंदसीति विकरणस्य लुक् । इतश्च लोप इतीकारलोपः । संयोगांतस्य लोपः । पिपेश । पिश अवयवे ॥ ९ ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२