मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६९, ऋक् ८

संहिता

तत्तु ते॒ दंसो॒ यदह॑न्त्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां॑सि ॥

पदपाठः

तत् । तु । ते॒ । दंसः॑ । यत् । अह॑न् । स॒मा॒नैः । नृऽभिः॑ । यत् । यु॒क्तः । वि॒वेः । रपां॑सि ॥

सायणभाष्यम्

हे अग्ने ते तव संबंधीन्येता व्रता एतानि परिदृश्यमानानि दर्शपूर्णमासादीनि कर्माणि नकिर्मिनंति । राक्षसादयो बाधका न हिंसंति । यद्यस्मात्त्वमेभ्यः कर्मसु वर्तमाानेभ्योः नृभ्यो यज्ञस्य नेतृभ्यो यजमानेभ्यः श्रुष्टिम् । शु आश्वश्नुते व्याप्नोतीति श्रुष्टिर्यज्ञफलरूपं सुखम् । तच्चिकर्थ कृतवानसि । सति हि तव व्रतानां बाधक एतन्नोपपद्यते । अतोऽवगम्यते तव व्रतानां हिंसका न संतीति । हे अग्ने ते त्वदीयं तत्तु दंसस्तदेव कर्म यद्यदि राक्षसादिरहन् हंति नाशयति कदानीं समानै सप्तगणरूपेण सदृशैर्नृभिर्नेतृभिर्मरुद्भिः युक्तस्त्वं रपांसि भादकानि राक्षसादीनि यद्यस्मात्त्वं विवेः गमयसि पलायनं प्रापयसि । तस्मात्तव व्रतानि न हिंसंतीति योज्यं ॥ मिनंति । मीञ् हिंसायम् । क्रैयादिकः । प्वादीनां ह्रस्व इति ह्रस्वत्वम् । विवेः । छंदसी लुङ् लङ् लिट इति वर्तमाने लङ् । वी गत्यादिषु । सिप्यदादित्वाच्छपो लुकि प्राप्ते बहुलं छंदसीति शपः श्लुः ॥ ७ ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३