मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ६९, ऋक् १०

संहिता

त्मना॒ वह॑न्तो॒ दुरो॒ व्यृ॑ण्व॒न्नव॑न्त॒ विश्वे॒ स्व१॒॑र्दृशी॑के ॥

पदपाठः

त्मना॑ । वह॑न्तः । दुरः॑ । वि । ऋ॒ण्व॒न् । नव॑न्त । विश्वे॑ । स्वः॑ । दृशी॑के ॥

सायणभाष्यम्

उषो न जार उषसो जरयितादित्य इव विभावा विशिष्टप्रकाशयुक्त उस्रो निवासयिता संज्ञातरूपः सर्वैः प्राणाभिरवगतस्वरूपः । देवतांतरवदप्रत्यक्षो न भवतीत्यर्थः । एवंभूतोऽग्नि रस्मै यजमानाय चिकेतत् । जानातु । अभिमतफलं ददात्वित्यर्थः । यद्वा । विभक्तिव्यत्ययः । अस्मा इदं सूक्तरूपं स्तोत्रं चिकेतत् । जानातु । तथास्य रश्मयस्त्मनात्मनैव स्वयमेव वहंतो हविर्वहनं कुर्वंतो दुरो यज्ञगृहद्वाराणि व्यृण्वन् । विशेषेण गच्छंति । व्याप्नुवंतीत्यर्थः । तदनंतरं दृशीके दर्शनीये स्वर्नभसि विश्वे सर्वे ते रश्मयो नवंत । गच्छंति । नवतिर्गतिकर्मा । देवान्प्राप्नुवंतीत्यर्थः ॥ उस्रः । वस निवासे । स्भायितंचीत्यादिना रक् । यजादित्वात्संप्रसारणम् । चिकेतत् । कित ज्ञाने । जौहोत्यादिकः । लेट्यडागमः । बहुलं छंदसीति वक्तव्यम् । का ७-३-८७-१ । इति वचनान्नाभ्यस्तस्याचि पीतिति लघूपधगुणप्रतिषेधाभावः । अभ्यस्तानामादिरित्याद्युदात्तत्वम् । ऋण्वन् । इवि रिवि रवि धवि गत्यर्थाः । इदित्त्वान्नुम् । छांदसो लङ् । व्यत्ययेन रेफस्य संप्रसारणम् । यद्वा ऋणु गतौ । तनोत्यादिः ॥ ९ ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३