मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७०, ऋक् १

संहिता

व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा॑न्यश्याः ॥

पदपाठः

व॒नेम॑ । पू॒र्वीः । अ॒र्यः । म॒नी॒षा । अ॒ग्निः । सु॒शोकः॑ । विश्वा॑नि । अ॒श्याः॒ ॥

सायणभाष्यम्

वनेमेति द्वैपदमेकादशर्चमध्ययनतः षडृचं षष्ठं सूक्तम् । ऋष्याद्याः पूर्ववत् । अनुक्रांतं च । वनेमैकादशेति ॥ विनियोगो लैंगिकः ॥

Sayana bhashya empty

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४