मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७०, ऋक् १०

संहिता

वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो॑ भरन्त ॥

पदपाठः

वि । त्वा॒ । नरः॑ । पु॒रु॒ऽत्रा । स॒प॒र्य॒न् । पि॒तुः । न । जिव्रेः॑ । वि । वेदी॑ । भ॒र॒न्त॒ ॥

सायणभाष्यम्

हे अग्ने त्वं वनेषु वननीयेषु संभजनीयेषु गोष्वस्मदीयेषु पशुषु प्रशस्तिं पशंसां धिषे । दधिषे । स्थापयसि । अस्माकं प्रशस्ता गवादिपशवो भवंत्वित्यर्थः । विश्वे सर्वे जना नोऽस्मभ्यं स्वः सुष्ठ्वरणीयं बलिमुपायनरूपं धनं भरंत । आहरंतु । हे अग्ने त्वा त्वां नरो मनुष्याः पुरुत्रा बहुषु देवयजनदेशेषु वि सपर्यन् । विविधं पूजयंति । पूजयित्वा च वेदो धनं वि भरंत । त्वत्तो विशेषेण हरंति । गृण्हंतीत्यर्थः । तत्र दृष्टांतः । जिव्रेर्जीर्णाद्वृद्धात्पितुर्न पितुरिव । यथा पुत्रा वृद्धात्पितुः सकाशाद्धनं हरंति तद्वत् ॥ धिषे । छांदसो वर्तमाने लिट् । द्विर्वचनप्रकरणे छंदसि वेति वक्तव्यम् । का ६-१-८-१ । इति द्विर्वचनाभावः । भरंत । हृञ् हरणे । केवलोऽपि सोपसर्गार्थो द्रष्टव्यः । छांदसोलङ् । हृग्रहोर्भ इति भत्वम् । पुरुत्रा । देवमनुष्यपुरुषपुरुमर्त्येत्यादिना सप्तम्यर्थे त्राप्रत्ययः । जिव्रेः । जृष् वयोहानौ । जृशृस्तृजागृभ्यः क्विन् (उ ४-५४) ऋूत इद्धातोरितीत्वम् । उणादयोऽव्युत्पन्नानि प्रातिपदिकानीति जिव्रिः किर्योर्गिर्योरित्येवमादिषु दीर्घो न भवति । का ८-२-७८ । इत्युक्तत्वात् हलि चेति दीर्घस्याभावः । रेफवकारयोर्विपर्ययः । उक्तं च । वर्णागमो वर्णविपर्ययश्च । का ६-३-१०९ । इति । नित्त्वादाद्युदात्तत्वम् । वेद इति धननाम । विद्यते लभ्यत इति वेदः । विद्लृलाभे । कर्मण्यसुन् ॥ ९ ॥ १० ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४