सा॒धुर्न गृ॒ध्नुरस्ते॑व॒ शूरो॒ याते॑व भी॒मस्त्वे॒षः स॒मत्सु॑ ॥
सा॒धुः । न । गृ॒ध्नुः । अस्ता॑ऽइव । शूरः॑ । याता॑ऽइव । भी॒मः । त्वे॒षः । स॒मत्ऽसु॑ ॥
द्विपदास्वयुक्संख्यासु यांत्यातिरिच्यते सा तथैव पठितव्येत्युक्तम् । उत्तरातादृशी द्विपदा ॥
अयमग्निः साधुर्न साधक इव गृध्नुर्गृहीता । यथा साधकः साध्यफलमातु गृण्हाति तद्वदग्निरपि सर्वं स्वीकरोतीत्यर्थः । तथायमग्निरस्तेव शूरः । यथेषूणां क्षेण्ता धानुष्कः । शत्रून्प्रेरयति तद्वदग्निरपि दहन् सर्वं प्राणिजातं प्रेरयति । तथा यातेव भीमः । याता यातयिता हिंसको भीमः सर्वेषां भयंकरो भवति । तद्वदग्निरपि दृष्टमात्रेण सर्वेषां भयमुत्पादयति । अत एवंविधोऽग्निः समत्सु संग्रामेषु त्वेषो दीप्तः सन् अस्माकं सहायो भवत्वित्यर्थः ॥ गृध्नुः । गृधु अभिकांक्षायाम् । त्रसिगृधिधृषिक्षिपेः क्नुः । शूरः । शु गतौ । अंतर्भावितण्यर्थादस्मात् शुषिचिमीनां दीर्घश्च (उ २-२५) इति क्रन् ॥ ११ ॥