मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् ४

संहिता

मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा॑ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् ।
आदीं॒ राज्ञे॒ न सही॑यसे॒ सचा॒ सन्ना दू॒त्यं१॒॑ भृग॑वाणो विवाय ॥

पदपाठः

मथी॑त् । यत् । ई॒म् । विऽभृ॑तः । मा॒त॒रिश्वा॑ । गृ॒हेऽगृ॑हे । श्ये॒तः । जेन्यः॑ । भूत् ।
आत् । ई॒म् । राज्ञे॑ । न । सही॑यसे । सचा॑ । सन् । आ । दू॒त्य॑म् । भृग॑वाणः । वि॒वा॒य॒ ॥

सायणभाष्यम्

मातरिश्वा व्यानवृत्तिरूपेणावस्थितो मुख्यप्राण ईमेनमग्निं यद्यदा मथीत् अमथ्नात् । अग्नॆर्मंथनस्य व्यानवायुसाध्यत्वमथ यः प्राणापानयोः संधिः स व्यान इत्युपक्रम्य च्छंदोगैराम्नातम् । अतो यान्यन्यानि वीर्यवंति कर्माणि यथाग्नेर्मंथनमाजेः । सरणं दृढस्य धनुष अयमनमप्राणन्ननपानं स्तानि करोति । छां उ १-३-३ रिंद ५ । इति मंत्रांतरं च भवति । अन्यं दिवो मातरिश्वा जभारामथ्नादन्यं परि श्येनो अद्रेः । ऋग्वे १-९३-६ । इति कीदृशोमातरिश्वा । विभृतः प्राणिषु प्राणापानादिपंचवृत्तिरूपेण विहृतो विभज्य स्थितः । तदपि प्राणसंवादे तैरेवाम्नातम् । तानरिष्टः प्राण उवाच । मा मोहमापद्यथाहमेवैतत् पंचधात्मानं प्रविभज्यैतत् वाणमवष्टभ्य विधारयामीति । मंथनेनोत्पन्नोऽयमग्निः श्वेतः शुभ्रवर्णो भूत्वा गृहे गृहे सर्वस्मिन्यज्ञ गृहे यदा जेन्यः प्रादुर्भूतो भूत् । यद्वा । रक्षसां जेन्यो जेताभिभविता भूत् । तथा च तैत्तिरीयकम् । देवासुराः संयत्ता असन् ते देवा बिभ्यतोऽग्निं प्राविशन् तस्मादाहुरग्निः सर्वा देवता इति तेऽग्निमेव वरूथं कृत्वासुरानभ्यभवन् । तै सं ६-२-२-६ । इति । ऐतरेयिणोऽप्यामनंति । ते देवा प्रतिबुध्याग्निं पुरुस्तात्प्रातःसवने पर्यौहंस्तेऽग्नि नैव पुरस्तात्प्रातः सवनेऽसुररक्षांस्यपाघ्न । ऐ ब्रा ६-४ । इति । अत् यज्ञगृहे प्रादुर्भावानंतरमीमेनमग्निं भृगवाणः । भृगुर्ऋषिः स इवाचरन्यजमानो दूत्यं दूतस्य कर्मा विवाय । शास्त्रमर्यादया प्रापयामास । तत्र दृष्टांतः । सचा सन् । सखाभवन्नन्यो राजा सहीयसेऽभिभिवित्रे प्रबलाय राज्ञे न । यथा राज्ञे स्वपुरुषं दूतकर्म प्रापयति तद्वत् ॥ मथीत् । मथे विलोडने । लुङि ह्म्यंतक्षणेति वृद्धिप्रतिषेधः । जेन्यः । जनी प्रादुर्भावे । अस्मादौणादिक एन्यप्रत्ययष्टिलोपश्चेति भट्वभास्करमिश्रः । यद्वा । जि जय इत्यस्मात्कृत्यल्युटो बहुलमिति बहुलवचनात्कर्तर्यचो यदिति यत् । तस्य नुडागमश्च । यतोऽनाव इत्याद्युदात्तत्वम् । दूत्यम् । दूतस्य कर्म दूत्यम् । दूतस्य भागकर्मणी इति यत् । तित्स्वरित इति स्वरितत्वम् । यतोऽनाव इत्याद्युदात्तत्वं त्वनित्यमिति वीरवीर्यौ चेत्यत्र ज्ञापितम् । भृगवाणः । भृगुरिवाचरन् सर्वप्रातिपदिकेभ्यः क्विब्वक्तव्यः । म ३-१-११-३ । इति वचनात् क्विप् । तदंताल्लटो व्यत्ययेन शानच् । अदुपदेशाल्लसार्वधातुकानुदात्तत्वे प्रत्ययांतधातोरंतोदात्तत्वे प्राप्ते वृषादेराकृतिगणत्वादाद्युदात्तत्वम् । विवाय । वी गत्यादिषु । अस्मादंतर्भावितण्यर्थाल्लिट् ॥ ४ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५