मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् ५

संहिता

म॒हे यत्पि॒त्र ईं॒ रसं॑ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् ।
सृ॒जदस्ता॑ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां॑ दे॒वो दु॑हि॒तरि॒ त्विषिं॑ धात् ॥

पदपाठः

म॒हे । यत् । पि॒त्रे । ई॒म् । रस॑म् । दि॒वे । कः । अव॑ । त्स॒र॒त् । पृ॒श॒न्यः॑ । चि॒कि॒त्वान् ।
सृ॒जत् । अस्ता॑ । धृ॒ष॒ता । दि॒द्युम् । अ॒स्मै॒ । स्वाया॑म् । दे॒वः । दु॒हि॒तरि॑ । त्विषि॑म् । धा॒त् ॥

सायणभाष्यम्

महे महते पित्रे पालयित्रे दिवे द्योतमानाय देवगणायेमिमं रसं पृथिव्याः सारभूतं हविर्यद्यदा यजमानः कः करोति तदानीं पृशन्यः स्पर्शनकुशलो राक्षसादिश्चिकित्वान् हवींषि वहंतं हे अग्ने त्वां जानन् अव त्सरत् । त्वद्भयात्पलायते । अस्तेषुक्षेपणशीलोऽग्निर्धृषता धर्षकेण धनुषास्मै पलायमानाय राक्षसादये दिद्युं दीप्यमानं बाणं सृजत् । विसृजति । देवो दीप्यमान उषःकालं प्राप्तोऽग्निः स्वायां स्वकीयायां दुहितरि दुहितृवत्समनंतरभाविन्यामुषसि त्विषिं स्वकीयां दीप्तिं धात् । स्थापयति । उषःकाले हि सूर्यकिरणाः प्रादुर्भवंति । तैः स्वकीयं प्रकाशमेकीकरोति । तथा च तैत्तिरीयकम् । उद्यंतं वावादित्यमग्निरनुसमारोहति तस्माद्धूम एवाग्नेर्दिवा ददृशे । तै ब्रा २-१-२-१० । इति । अत उषसि दीप्तिं निदधातीत्युच्यते ॥ कः । करोतेर्लुङि मंत्रे घसेत्यादिना च्लेर्लुक् । त्सरत् । त्सर च्भद्मगतौ । लेट्यडागमः । इतश्चेतीकारलोपः । पृशन्यः । स्पृश संस्पर्शने । कृपृवृजीति (उ २-८१) विधीयमानः क्युप्रत्ययो बहुलवचनादस्मादपि भवति । स्पृशनं स्पर्शः । तत्र साधुरिति यत् । सलोपश्छांदसः । तित्स्वरितमिति स्वरितत्वम् । दिद्युम् । दिद्युदिति वज्रनाम । अंत्यलोपश्छादंसः । धात् । छांदसो वर्तमाने लुङ् ॥ ५ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५