मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् ८

संहिता

आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑ ।
अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नं स्वा॒ध्यं॑ जनयत्सू॒दय॑च्च ॥

पदपाठः

आ । यत् । इ॒षे । नृ॒ऽपति॑म् । तेजः॑ । आन॑ट् । शुचि॑ । रेतः॑ । निऽसि॑क्तम् । द्यौः । अ॒भीके॑ ।
अ॒ग्निः । शर्ध॑म् । अ॒न॒व॒द्यम् । युवा॑नम् । सु॒ऽआ॒ध्य॑म् । ज॒न॒य॒त् । सू॒दय॑त् । च॒ ॥

सायणभाष्यम्

अग्नेर्यत्तेजो नृपतिं नृणामृत्विजां पालकं यजमानमानट् जाठररूपेण आ समंताद्व्याप्नोत् । किमर्थम् । इष अन्नाय । कीदृशम् । शुचि शुद्धं द्यौर्दीप्तम् । तेन तेजसा परिपक्वमन्नं रसरूपं रेतो वीर्यमभीकेऽभ्यक्तेऽभिगतेऽभिप्राप्ते गर्भस्थाने निषिक्तं नितरां सिक्तमग्निर्वक्ष्यमूणगुणविशिष्टपुत्ररूपेण जनयत् । जनयतु । शर्धं बलवंतमनवद्यमवद्यरहितं युवानं तरुणम् । जरारहितमित्यर्थः । स्वाध्यं शोभनकर्माणं शोभनप्रज्ञं वोत्पन्नं पुत्रं सूदयच्च । यागादिकर्मसु प्रेरयतु च । यद्वा । रेत इत्युदकनाम । निषिक्तं मेघेन वृष्टमुदकमिषेऽन्नाय सस्यादिनिष्पत्तयेऽग्नेर्यत्तेज अनट् व्याप्नोत् । वृष्ट्युदकेन भौमाग्नेः संयोगे सति हि सस्यान्युत्पद्यंते । कीदृशं तेजः । नृपतिं नृणां रक्षकं शुचि दीप्तम् । तादृशेन तेजसा । युक्तो द्यौर्दीप्तोऽग्निरभीक आसन्नकाल एव शर्धादिगुणविशिष्टं पुत्रं जनयतु तं च प्रेरयतु यज्ञादौ ॥ इषे । सावेकाच इति विभक्तेरुदात्तत्वम् । नृपतिं परादिश्छंदसि बहुलमित्युत्तरपदाद्युदात्तत्वम् । आनट् । अशू व्याप्तौ । लङिव्यत्ययेन परस्मैपदश्नमौ । आडागमः । व्रश्चादिषत्वे ष्टुत्वम् । निषिक्तम् । षिचिर् क्षरणे । कर्मणि निष्ठा । गतिरनंतर इति गतेः प्रकृतिस्वरत्वम् । उपसर्गात्सुनोतीति षत्वम् । अभीके । अभिपूर्वादंचतेः पचाद्यचिपृषोदरादित्वा द्रूपसिद्धिः । यद्वा । इण् गतावित्यस्मादौणादिकः कक्प्रत्ययः । उभयथापि दासीभारादित्वात्पूर्वपदप्रकृतिस्वरत्वम् । स्वाध्यम् । एरनेकाच इति यणादेशः । उदात्तस्वरितयोर्यण इति स्वरितत्वम् । जनयत् । जनेर्ण्यंताल्लेट्यडागमः । सूदयत् । षूद क्षरणे पूर्ववल्लेट्यडागमः ॥ ८ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६