मण्डलवर्गीकरणम्

मण्डलम् १, सूक्तम् ७१, ऋक् ९

संहिता

मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे ।
राजा॑ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ॥

पदपाठः

मनः॑ । न । यः । अध्व॑नः । स॒द्यः । एति॑ । एकः॑ । स॒त्रा । सूरः॑ । वस्वः॑ । ई॒शे॒ ।
राजा॑ना । मि॒त्रावरु॑णा । सु॒पा॒णी इति॑ सु॒ऽपा॒णी । गोषु॑ । प्रि॒यम् । अ॒मृत॑म् । रक्ष॑माणा ॥

सायणभाष्यम्

यः सूरः सूर्य एक एकाक्यसहायः सन्नध्वनो दिव्यान्मार्गान्सद्य एति आशु गच्छति । असहायत्वं च श्रूयते । सूर्य एकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरतीति । तै । ब्रा । ३-९-५-४ । शीघ्रगमनं च स्मर्यते । योजनानां सहस्रे द्वे द्वे शते द्वे च योजने । एकेन निमिषार्धेन क्रममाण नमोऽस्तु त इति । शीघ्रगमने दृष्टांतः । मनो न । यथा मनः शीघ्रं गच्छति तद्वत् । स च शूरो वस्वो धनस्य सत्रा सहैव युगपदेवेशे । ईष्टे । यो हि शीघ्रं गच्छति स बहुदेशेष्टवस्थितानि धनानि प्राप्नोति । तथा राजाना राजमानौ सुपाणी शोभनबाहू मित्रावरुणा मित्रावरुणावस्मदीयासु गोषु प्रियं सर्वेषां प्रीतिकरममृतममृतवत्स्वादुभूतं पयो रक्षमाणा रक्षंतौ वर्तेते । हे अग्ने तत्तद्रूपेण त्वमेवैवं वर्तस इति भावः ॥ वस्वः । लिंगव्यत्ययः । जसादिषु च्छंदसि वावचनमिति घेर्ङितीति गुणाभावे यणादेशः । ईशे । ईश ऐश्वर्ये । लोपस्त आत्मनेपदेष्विति तलोपः । मित्रावरुणा । देवताद्वंद्वे चेति पूर्वपदस्यानङादेशः । देवताद्वंद्वे चेत्युभयपदप्रकृतिस्वरत्वं ॥ ९ ॥

  • अनुवाकः  १२
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६